________________
६८
नीतिवाक्यामृते
अध्यात्मज्ञो हि महीपालो न दोषैः परिभूयते ।
सहजागन्तुकैश्चापि शारीरैर्मानसैस्तथा ॥१॥ अथात्मनः क्रीडास्थानान्याहइन्द्रियाणि मनो विषया ज्ञानं भोगायतनमित्यांत्मारामः॥३॥
टीका-(इन्द्रियाणि मनो विषयों ज्ञानं ) भोगायतनं विलासस्थानं, एतैः सर्वैरासमन्ताद्रमते इत्यारामः क्रीडां करोतित्यर्थः । तथा च विभिटीकः- .
इन्द्रियाणि मनो ज्ञानं विषया भोग एव च ।
विश्वरूपस्य चैतानि क्रीडास्थानानि कृत्स्नशः ॥१॥ अथात्मनः स्वरूपमाहयत्राहमित्यनुपचरितप्रत्ययः स आत्मा ॥४॥ टीका-यस्य स्वरूपं न निश्चीयते यद्येवं तर्हि आत्मना स प्रत्ययो न ज्ञायते " किं वा शुक्लः किं वा नील इति " स आत्मा ? तथा च श्रुतिः
" यथा महाराजनं वासो यथा यांद्वाविकं यथेन्द्रगोपोग्निर्यथा पुण्डरीकं यथा सद्विद्युत्तेवं भवा स्यु श्रीर्भवति" अथात्मनः प्रतिष्ठार्थमाह
असत्यात्मनः प्रेत्यभावे विदुषां विफलं खलु सर्वमनुष्ठानम् ॥ ५॥
टीका-अत्र नास्तिका अप्येवं वदन्ति आत्मा नास्तीति । तद्यथा । आत्मनः प्रेत्यभावो न भवति प्रेत्यभावशब्दनाप्रत्ययोऽभिधीयते स यदि न भवति तदेतेषां दीक्षितानां खलु निश्चयेन विफलं व्यर्थ सर्वमनुष्ठान
१ इत्यात्माराम इति पाठो लिखितमुद्रितमूलपुस्तकद्वयात् संयोजितः । २ कंसस्थः पाठः कल्पितः । ३ यस्मिन् मुख्यहं दुःख्यहमिच्छावानहमित्याद्यनुपचरिताहम्प्रत्यय आत्मग्राही प्रतिप्राणिसंविदितरूपो भवति स आत्मा ।-मार्तडे
Jain Education International
'For Private & Personal Use Only
www.jainelibrary.org