SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आन्वीक्षिकीसमुद्देशः। स्नानदानजपहोमादिकं, तदेवं न भवति, आत्मास्त्येव । तथा च याज्ञवल्क्यः । आत्मा सर्वस्य लोकस्य सर्व भुक्ते शुभाशुभं । मृतस्यान्यत्समासाद्य स्वकर्माहं कलेवरम् ॥ १ ॥ अथ मनःस्वरूपमाहयतः स्मृतिः प्रत्यवमर्षणमूहापोहनं शिक्षालापक्रियाग्रहणं च भवति तन्मनः ॥६॥ टीका--यतो यस्मात्स्मृतिर्भवति मयैतत्कृत्यं कृतं करिष्यते वा । तथा प्रत्यवमर्षणं चिन्ता । तथोहापोहनं, ऊहा संदिग्धस्य पर्यालोचनं, अपोहस्तस्य निश्चयः । शिक्षालापग्रहणं यदि कश्चिच्छिक्षां ददाति, अथवात्मालापं करोति तस्य यद्ग्रहणमवधारणं तन्मनो भवति । तथा च गुरुः ऊहापोहो तथा चिन्ता परालापावधारणं । यतः संजायते पुंसां तन्मनः परिकीर्तितम् ॥ १ ॥ अथेन्द्रियाणां स्वरूपमाह__ आत्मनो विषयानुभवनद्वाराणीन्द्रियाणि ॥ ७॥ टीका-विषयाणामनुभवनं विषयानुभवनं विषयसेवनं तदिन्द्रियद्वारेण सहाय्येनात्मनो भवति । तथा च रैभ्यः इन्द्रियाणि निजान् ग्राह्यविषयान् सपृथक्पृथक् । आत्मनः संप्रयच्छन्ति सुभृत्याः सुप्रभोर्यथा ॥१॥ अथ विषयाणां संज्ञामाह शब्दस्पर्शरसरूपगन्धा हि विषयाः ॥ ८ ॥ १ आत्माभावे । २ अतः । ३ श्लोकोऽयं 'याज्ञवल्क्यस्मृतौ' नास्ति । ४ सिक्खाकिरियुवदेसालावग्गा हि मणोवलंबेण । इत्यन्यत्र । ५ स्पर्शरसगन्धवर्णशब्दास्तदर्था इति तत्वार्थे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy