SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ७० नीतिवाक्यामृते टीका — गतार्थमेतत् । अथ ज्ञानस्य स्वरूपमाह समाधीन्द्रियद्वारेण विप्रकृष्टसन्निकृष्टावबोधो ज्ञानं ॥ ९ ॥ टीका - यज्ज्ञानं तत्किविशिष्टं ? विप्रकृष्टसन्निकृष्टावबोधः । विप्रकृष्टशब्देन परोक्षमभिधीयते, सन्निकृष्टः प्रत्यक्षस्ताभ्यामवबोधः प्रकाशस्तज्ञानं । केन तौ द्वावपि ज्ञेयौ ? ध्यानेन्द्रियद्वारेण योऽसौ परोक्षेः स ध्यानद्वारेण समाधिना ज्ञेयः । एतत्पृच्छकस्य भवति, एतैरहोभिः ? | यः पुनः प्रत्येक्षः स इन्द्रियद्वारेण यथा श्रोत्रेण ज्ञायते एतद्गीतं, सम्प्रत्यये तत्तथा विषयी ? । एतेषां चतुर्णामपि स्वरूपमागामिकसूत्रैर्वदिष्यत्याचार्यः । अथाभ्यासस्य स्वरूपमाह — क्रियातिशय विपाकहेतुरभ्यासः ॥ १० ॥ टीका - क्रियाया अतिशयः पुनः पुनरावर्तनं येन परिपाकः परिणतिर्भवति साभ्यासेन भवति । अभ्यसनमभ्यासः । एतदुक्तं भवति विद्यामभ्यस्य यः परिणति श्रयति शिल्पं तावत्कदाचित्त्यजति तत्पूज्यो भवति ततः सुखी स्यात्, एतस्मात् कारणादभ्यासः सुखहेतुः । तथा च हारीत: अभ्यासाद्वार्यते विद्या विद्यया लभ्यते धनम् । धनलाभात्सुखी मत्यों जायते नात्र संशयः ॥ १ ॥ अथाभिमानस्य लक्षणमाह प्रश्रय सत्कारादिलाभेनात्मनो यदुत्कृष्टत्वसम्भावनमभिमानः ।। ११ । टीका - प्रश्रयो विनयः सत्कारः पूजा इत्यादिभिरन्यैश्च स्पष्टवाक्यप्रसादनस्तुत्यादिभिर्वचनैर्लोभस्तेनात्मनो य उत्कर्ष आनन्दस्तेन या संभावना Jain Education International _ १ देशकालस्वभावविप्रकृष्टोऽर्थः । २ सम्बद्धवर्तमानोऽर्थः । ३ आत्मोत्कर्ष संम्भवनमिति मु-मू-पुस्तके | For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy