________________
आन्वीक्षिकीसमुद्देशः ।
७१
साधुमध्ये भवति तदभिमानमुच्यते द्वितीयं सुखकारणं । तथा च
नारद:
सत्कारपूर्वो यो लाभः स स्तोकोऽपि सुखावहः । अभिमानं ततो धत्ते साधुलोकस्य मध्यतः ॥ १ ॥ अथ सम्प्रत्ययलक्षणमाह
अतगुणे वस्तुनि तद्गुणत्वेनाभिनिवेशः सम्प्रत्ययः ॥ १२ ॥ टीका - अतद्गुणे वस्तुनि निर्गुणे पदार्थे तद्गुणत्वेनाभिनिवेश: स्वशक्त्या गुणप्रतिष्टमा सम्प्रत्यय उच्यते तृतीयं सुखकारणं । एतदुक्तं भवति श्रोत्रेण एतद्वाद्यं सुन्दरं, एतदसुन्दरं । तथा त्वचा एतन्मृदुरेतत्कठोरं । तथा दृष्ट्या एतद्भव्यमेतदभव्यं । तथा जिव्हयैतन्मधुरमेतत्कटुकं । तथा घ्राणेनैतत्सुगन्धमेतद्दुर्गन्धमिति । तथा च नारदः - परोक्षो यो भवेदर्थः स ज्ञेयोऽत्र समाधिना । प्रत्यक्षश्चेन्द्रियैः सर्वैर्निजगोचरमागतः ॥ १ ॥
अथ सुखस्य लक्षणमाह
सुखं प्रीतिः ॥ १३ ॥
टीका - यत्र मनस इन्द्रियाणां प्रीतिरानन्दो भवति तत्सुखं । तथा च हारीत:
मनसश्चेन्द्रियाणां च यत्रानन्दः प्रजायते ।
दृष्टे वा भक्षिते वापि तत्सुखं सम्प्रकीर्तितम् ॥ १ ॥ अथासुखस्यापि स्वरूपमाह -
तत्सुखमप्यसुखं यत्र नास्ति मनोनिवृत्तिः ॥ १४ ॥
टीका - नास्ति सुखं लोकानां पुत्रकलत्रधनधान्यसमुत्थं भवति तत् यस्मिन् पुत्रे मनसा वैराग्यं भवति कलत्रे वा, धने वा, धान्ये वा तत्सुखमपि दुःखं भवति । तथा च वर्ग:---
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org