SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ७२ नीतिवाक्यामृते wwwwwwner समृद्धस्यापि मर्त्यस्य मनो यदि विरागकृत् । दुःखी स परिशेयो मनस्तुष्टया सुखं यतः॥१॥ अथ सुखस्य कारणान्याह । अभ्यासाभिमानसंप्रत्ययविषयाः सुखस्य कारणानि ॥१५॥ टीका-एतानि चत्वारि नरस्य सुखकारणानि । एकं तावदभ्यासो यः स्वकर्मणः। तथाभिमानं अभि-समन्तान्मानं सन्मानं तद्राजादीनां सकाशात् । तथा सम्प्रत्ययः सम्प्रत्ययशब्देनात्मनः प्रतिष्ठाकारणमुच्यते, अयोग्यमपि । विषयाः प्रसिद्धास्तेषां सेवनं । तत्र तावदभ्यासस्य सुखकारणमुच्यते अभ्यासाच्च भवेद्विद्या तथा च निजकर्मणः। तया पूजामवाप्नोति तस्याः स्यात्सर्वदा सुखी ॥१॥ अथ मानस्यसन्मानपूर्वको लाभः स स्तोकोऽपि सुखावहः । मानहीनः प्रभूतोऽपि साधुभिर्न प्रशस्यते ॥१॥ अथ विषयः--- सेवनं विषयाणां यत्तन्मितं सुखकारणं। अमितं च पुनस्तेषां दारिद्यकारणं परं ॥१॥ तथा च हारीत: अविद्योऽपि गुणान्मर्त्यः स्वशक्त्या यः प्रतिष्ठयेत् । तत्सुखं जायते तस्य स्वप्रतिष्ठासमुद्भवम् ॥१॥ अथ विषयस्वरूपमाह इन्द्रियमनस्तर्पणो भावो विषयः ॥१६॥ १ लिखितमुद्रितमूलपुस्तके तु सुखासुखलक्षणकथके सूत्रे पूर्वमुक्के पश्चात् सुखकारणसूत्रं तत्पश्चात् सुखकारणानां लक्षणसूत्राणि चोक्तानि अत्र तु वैपरीत्येन। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy