________________
आन्वीक्षिकीसमुद्देशः। टीका-येन भावेन कृतेनेन्द्रियाणां तर्पणं भवति मनसश्च तुष्टिर्भवति स भावो विषय उच्यते । तच्चतुर्थ सुखकारणं । तथा च शुक्रः
मनसश्चेन्द्रियाणां च सन्तोषो येन जायते।
स भावो विषयः प्रोक्तः प्राणिनां सौख्यदायकः ॥१॥ अथ दुःखस्य लक्षणमाह
दुःखमप्रीतिः ॥ १७ ॥ टीका-यस्मिन् वस्तुनि दृष्टे आच्छादिते वाऽप्रीतिर्वैराग्यं भवति तदुःखमभिधीयते श्रेष्ठेऽपि च वस्तुनि । तथा च शुक्रः
यत्र नो जायते प्रीतिदृष्टे वाच्छादितेऽपि वा।
तच्छ्रेष्ठमपि दुःखाय प्राणिनां सम्प्रजायते ॥१॥ अथ सुखस्य लक्षणमाह
तदुःखमपि न दुःखं यत्र न संक्लिश्यते मनः ॥ १८ ॥ टीका-यत्र यस्मिन् पदार्थे दृष्टे वा मृते वा मनस: क्लेशः न भवति तहुःखमपि अदुःखमेव ।
............।
कथं कारयेद्वयाधिः स नश्यति विनौषधं ॥१॥ अथ चतुर्विधस्य दुःरतस्य स्वरूपमाहदुःखं चतुर्विधं सहजं दोषजमागन्तुकमन्तरंगं चेति।। १९ ॥ टीका-एतस्य चतुर्विधस्य दुःखस्याचार्येणापि व्याख्या कृता । सहजं क्षुत्तृषामनोभूभवं चेति ॥२०॥ दोषजं वातपित्तकफवैषम्यसम्भूतं ॥ २१ ॥ आगन्तुकं वर्षातपादिजनितं ॥ २२ ॥
१ शुक्रनामाविता ये श्लोकाः पूर्वमग्रे च उक्तास्ते प्रायेण शुक्रनीतौ दृष्टिपथं नायाताः। २ अन्तरंगजं चेति मु-मू-पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org