________________
७४
नीतिवाक्यामृते
(यचिन्त्यते दरिदैन्य कारण । न्यकारोऽपराधचौर्यादिको यः तेन कदाचिद्धन्यते कदाचिद्विध्यते स तं ? )*
न्यक्कारावज्ञेच्छाविघातादिसमुत्थमन्तरङ्गजम् ॥ २३ ॥ टीका—गतार्थमेतत् । अथ पुरुषस्य यथा लोकद्वयनाशो भवति तदाह
न तस्यैहिकामुष्मिकं च फलमस्ति यः क्लेशायासाभ्यां भवति विप्लवप्रकृतिः ॥ २४ ॥
टीका-क्लेशः कष्टं, आयासः खेदः, ताभ्यां यः पुरुषो विक्लवप्रकृतिर्नष्टमतिर्भवति। तत्र कापि नास्ति न विद्यते किं तत् फलं । किंविशिष्टं ? ऐहिकमिहजन्मभवं तथामुत्रिकं वा पारलौकिकं । तथा च व्यास:----
जीयते क्लेशखेदाभ्यां सदा कापुरुषोऽत्र यः।
न तस्य मत्यै यो लाभः कुतः स्वर्गसमुद्भवः ॥१॥ सुवंशस्य पुरुषस्य माहात्म्यमाह
स किं पुरुषो यस्य महाभियोगेसुवंशधनुष इव नाधिकं जायते बलम् ॥ २५ ॥ ___टीका-यस्य पुरुषस्य महाभियोगे आपत्काले अधिकं बलं पौरुषं न जायते स पुरुषः स्त्रीति मन्तव्यः । कस्येव ? सुवंशधनुष इव । एतदुक्तं भवति–यत्सुवंशधनुर्भवति तस्य शराक्षेपकाले दृढता भवति कुवंशजस्य पुनः शिथिलता । तथा च गुरु:
युद्धकाले सुवंश्यानां वीर्योत्कर्षः प्रजायते ।
येषां च वीर्यहानिः स्यात्तेऽत्र शेगा नपुंसकाः॥१॥ * कंसस्थः सूत्रपाठः गद्यपाठश्व केवलं टीका-पुस्तके वर्तते न ज्ञायते कथमयं पाठो मध्ये पतितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org