SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आन्वीक्षिकीसमुद्देशः । अथाभिलाषस्य स्वरूपमाह आगामिक्रिया हेतुरभिलाषो वेच्छा || २६ ॥ टीका - आगामिक्रिया भविष्यत्कृत्यं तस्य हेतुः कारणमभिलाषः कथ्यते, वा विकल्पेनेच्छा वेति । तथा च गुरुः-भाविकृत्यस्य यो हेतुरभिलाषः स उच्यते । इच्छा वा तस्य सन्धा या भवेत्प्राणिनां सदा ॥ १ ॥ अथात्मनः प्रत्यवायेषु यत्पुरुषेण कर्तव्यं तदाहआत्मनः प्रत्यवायेभ्यः प्रत्यावर्तन हेतुद्वेषोऽनभिलाषो वा २७ टीका - आत्मनः सकाशात् ये प्रत्यवाया दोषा भवन्ति तेषां प्रत्यावर्तनं व्याघोटनं तस्य हेतुः कारणं द्वेषो जुगुप्साऽनभिलाषो वा वांञ्छा वा । तथा च गुरुः आत्मनो यदि दोषाः स्युस्ते निंद्या विबुधैर्जनैः । अथवा नैव कर्तव्या वाञ्छा तेषां कदाचन ॥ १ ॥ अथोत्साहस्य स्वरूपमाहहिताहितप्राप्तिपरिहारहेतुरुत्साहः || २८ || टीका यस्मिन् कर्मणि क्रियमाणे हितस्याभीष्टस्य प्राप्तिर्भवति । तथाहितस्यानिष्टस्य परिहारस्त्यागो भवति स उत्साहो हृदयानन्दः कथ्यते । तथा च वर्ग: शुभाप्तिर्यत्र कर्तव्या जायते पापवर्जनम् । हृदयस्य परा तुष्टिः स उत्साहः प्रकीर्तितः ॥ १ ॥ Jain Education International ७५. + अथ प्रयत्नस्य स्वरूपमाह - प्रयत्नः परनिमित्तको भावः ।। २९ ।। टीका - परार्थे ऽन्यकृते यो भावश्चित्तं मयास्यैतदवश्यं कर्तव्यमिति: स प्रयत्नः । तथा च व (ग)र्ग: For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy