SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ७६ नीतिवाक्यामृते परस्य करणीये यश्चित्तं निश्चित्य धार्यते । प्रयत्नः स च विशेयो गर्गस्य वचनं यथा ॥१॥ अथ संस्कारस्य स्वरूपमाहसातिशयलाभः संस्कारः ॥ ३० ॥ टीका-यः सातिशयः सातिरेको लामो भवति जनान्नृपतेर्वा स संस्कारः प्रतिष्ठासंज्ञः । अत्रापि गर्गः सन्मानाद्भूमिपालस्य यो लाभः संप्रजायते। महाजनाच्च सद्भक्तेः प्रतिष्ठा तस्य सा भवेत् ॥१॥ अथ शरीरस्य स्वरूपमाहभोगायतनं शरीरम् ॥ ३१ ॥ टीका-भुज्यन्ते इति भोगाः शुभाशुभाः तेषामायतनं गृहमेतच्छ•रीरं । तथा च हारीत: सुखदुखानि यान्यत्र कीर्त्यन्ते धरणातले । तेषां गृहं शरीरं तु यतः कर्माणि सेवते ॥१॥ अथ लोकायतिकस्य स्वरूपमाहऐहिकव्यवहारप्रसाधनपरं लोकायतिकम् ॥ ३२ ॥ टीका-~~यल्लोकायतं नास्तिकदर्शनं तदनुष्ठानं च। तत्कि विशिष्टं ? ऐहिकव्यवहारप्रसाधनं केवलं मद्यमांसस्त्रीसेवानिमित्तं न परत्रार्थ । तथा “च गुरु: अग्निहोत्रं त्रयो वेदाः प्रवृज्या नग्नमुण्डता । बुद्धिपौरुषहीनानां जीवितेऽदो मतं गुरुः ॥१॥ अथ भूपतेर्लोकायतिकशास्त्रज्ञस्य यद्भवति तदाहलोकायतज्ञो हि राजा राष्ट्रकण्टकानुच्छेदयति ॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy