SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आन्वीक्षिकीसमुद्देशः । टीका - किल लोकायतं निषिद्धं साधूनां यतस्तेन ज्ञातेन निर्दयता भवति तथापि राज्ञा बोद्धव्यं यतस्तेन ज्ञातेन जारचौरमर्यादाभेद कानामुपरि निर्दयत्वं करोति राष्ट्रक्षेमाय । तथा च शुक्रः — दयां करोति यो राजा राष्ट्रसन्तापकारिणां । स राज्यभ्रंशमाप्नोति राष्ट्रोच्छेदादिसंशयं ॥ १ ॥ अथैकान्तत्वदूषणमाह न खल्वेकान्ततो यतीनामप्यनवद्यास्ति क्रिया ॥ ३४ ॥ टीका — यतीनामपि संन्यस्तानामपि एकान्ततो नैरन्तर्येण क्रियमाण क्रिया नानवद्या, अपि तु साध्वपवादाय तेषामपि क्रियावसानमस्ति । तथा च वर्ग: अनवद्या सदा तावन्न खल्वेकान्ततः क्रिया । यतीनामपि विद्येत तेषामपि यतच्युतिः ॥ १ ॥ अथैकान्तेन कारुण्यपरस्य यद्भवति तदाह - एकान्तेन कारुण्य परः करतलगतमप्यर्थं रक्षितुं न क्षमः ||३५|| टीका - एकान्तेन नैरन्तर्येण यो राजा कारुण्यपरो दयापरो भवति स हस्तगतमपि वित्तं रक्षितुं न क्षमः । तथा च शुक्रः दया साधुषु कर्तव्या सीदमानेषु जन्तुषु । असाधुषु दया शुक्रः स्वचित्तादपि भ्रश्यति ॥ १ ॥ अथ प्रशमैकचित्तस्य भूपतेर्यद्भवति तदाहप्रशमैकचित्तं को नाम न परिभवति ॥ ३६ ॥ ७७० टीका — केवलमक्रोधो यस्य चित्ते वसति तं तथाभूतं को नामाहो न परिभवति । अपि तु सर्वेप्यवज्ञया पश्यन्ति । तथा च भृगुः - सदा तु शान्तचित्तस्य पुरुषः सम्प्रजायते । तस्य भार्यापि नो पादौ प्रक्षालयति कर्हिचित् ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy