SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते अथ भूपैर्यादृश्यशैर्भाव्यं तदाह--- अपराधकारिषु प्रशमो यतीनां भूषणं न महीपतीनां ॥३७॥ टीका--अपराधकारिषु अनिष्टकारिविषये क्षमा शान्तता भूषणं यतीनां सन्यस्तानां न महीपतीनां तस्मात्पार्थिवेन दुष्टनिग्रहः कार्यः । तथा च यो राजा निग्रहं कुर्यात् दुष्टेषु स विराजते प्रसादे च यतस्तेषां तस्य तद्दूषणं परं ॥१॥ अथ यथा निन्द्यः पुरुषो भवति तदाहधिक्तं पुरुषं यस्यात्मशक्त्या न स्तः कोपप्रसादौ ॥ ३८ ॥ टीका-( यस्य पुरुषस्यात्मशक्त्या कोपप्रसादौ न ) भवतः स धिक् निन्द्यः स पुरुषो न भवति षण्ढ एव । तथा च व्यासः-- प्रसादो निष्फलो यस्य कोपश्चापि निरर्थकः। न तं भर्तारमिच्छन्ति प्रजाः षण्ढमिव स्त्रियः ॥१॥ अथ विक्रमरहितस्य भूपतेर्यद्भवति तदाह-- स जीवन्नपि मृत एव यो न विक्रामति प्रतिकूलेषु ॥३९॥ टीका---एव शब्दो निश्चये । स राजा जीवन्नपि मृत एव । यः किं न-कुर्यात् न विक्रामति न पराक्रमं करोति, केषु ? प्रतिकूलेषु अहितेषु । तथा च शुक्रः परिपन्थिषु यो राजा न करोति पराक्रमम् । स लोहकारभस्त्रेव श्वसनपि न जीवति ॥ १ ॥ अथ भूयोऽपि पराक्रमरहितस्य भूपस्य यद्भवति तदाहभस्मनीव निस्तेजसि को नाम निःशङ्कः पदं कुर्यात् ॥४०॥ टीका-निस्तेजसि भूपतौ शौर्यरहिते राज्ञि नाम अहो को न कुर्यात् पदं परिभवं निःशङ्कः सन् । अपि तु सर्वोऽपि हीनोऽपि । कस्मिन्निव ? भस्मनीव तस्माद्भूपेन पराक्रमवता भाव्यं । तथा च शुक्रः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy