SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आन्वीक्षिकीसमुद्देशः । शौर्येण रहितो राजा हीनैरप्यभिभूयते । भस्मराशिर्यथानग्निर्निःशंकैः स्पृश्यतेऽरिभिः ॥ १ ॥ अथ धर्मप्रतिष्ठामाह - " तत्पापमपि न पापं यत्र महान् धर्मानुबन्धः ॥ ४१ ॥ टीका — यत्र यस्मिन् पापे कृते परिणामे महान् धर्मानुबन्धो भवति धर्मप्राप्तिर्भवति तन्न पापं पापमपि स धर्मः, किल वधबन्धादिभिः पापं भवति परं तेषां निग्रहे कृते यथोक्ते स एव धर्मः । तथा च बादरायणःत्यजेद्देहं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १ ॥ पापानां निग्रहे राजा परं धर्ममवाप्नुयात् । न तेषां च वधबन्धाद्यैस्तस्य पापं प्रजायते ॥ २ ॥ अथ राज्ञो दुष्टनिग्रहमकुर्वाणस्य यद्भवति तदाहअन्यथा पुनर्नरकाय राज्यम् ॥ ४२ ॥ टीका -- अन्यथा पुनर्वर्तमानस्य दुष्टानां निग्रहमकुर्वाणस्य तदेव राज्यद्वारेण नरकम् । तथा च हारीत: चौरादिभिर्जनो यस्य मैथिल्येन प्रपीडयते । स्वयं तु नरकं याति स राजा नात्र संशयः ॥ १ ॥ अथ नियोगिनो यद्भवति तदाह mga kag ७९ बन्धनान्तो नियोगः ॥ ४३ ॥ टीका - योऽसौ नियोगो राजाधिकारः स बन्धनान्तो बन्धनादात्मी भवति । तथा च गुरुः Jain Education International न जन्म मृत्युना बाह्यं नोच्चैस्तु पतनं विना । न नियोगच्युतो योगो नाधिकारोऽस्त्यबन्धनः ॥ १ ॥ अथ खलमैत्र्याद्यद्भवति तदाहविपदन्ता खलमैत्री ॥ ४४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy