Book Title: Nishith Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 445
________________ बुर्णिमा यावचूरिः उ०१९ सू०१७-२० सूत्रवाचनोत्क्रमापात्रपात्रवाचनाऽधाचननि० ४२३ तथा यत् सूत्रं यस्य सूत्रत्याग्रेतनं तत् तस्य उपरितनं सूत्रं कथ्यते, यथा दशवैकालिकसूत्रस्यावश्यकसूत्रम् अघस्तनमिति भवति, एवमुत्तराध्ययनसूत्रस्य दशवैकालिकसूत्रमधस्तनं भवति, अथवाद्रव्यक्षेत्रकालभावाः एते सर्वे यत्र समवगाढाः भवन्तीत्युच्यते तत् समवसरणम् । तत् समयसरणं, पुनः किस्वरूपकम् ! तत्रोच्यते-अङ्गम् , श्रुतस्कन्धः, अध्ययनम्, उद्देशकश्व, तत्राङ्गं यथा आचाराङ्गादिकम् तथा च सूत्रकृताङ्गादाचाराङ्गमधस्तनमिति, आ बारागसूत्रमवाचयित्वा यदि सूत्रकृताङ्गसूत्रं वाचयति तदा सूत्रोको दोषो भवति । श्रुतस्कन्धो यथा आवश्यकसूत्रम् , तथावश्यकसूत्रमवाचयित्वा दशवैकालिकसूत्रं वाचयति तदा श्रुतस्कन्धोतो दोषो भवति । अध्ययनं यथा-सामायिकमयाचयित्वा चतुर्विंशतिस्तवं वाचयति तदा अध्ययनोक्तो दोषः, अथवा-शस्त्र परिज्ञाध्ययनमवाचयित्वा लोकविनयनामकमध्ययनं वाचयति तस्य तदा भध्ययनोक्तो दोषो भवति । उद्देशकेषु यथा-शत्रपरिज्ञाध्ययने प्रथमं श्रामण्योद्देशकमवाचयित्वा द्वितीयं पृथिवीकायिकोद्देशकं वाचयति । एवमाचाराङ्गादिसुत्रेष्वपि पूर्वापरातिक्रमणे दोषो ज्ञातव्यः । एवं व्युत्क्रमेण सूत्रार्थवाचना न कर्त्तव्येति ।।सू०१७॥ सूत्रम्--जे भिक्खू णवयंभचेराई अवाएत्ता उवरिमसुयं वाएइ वाएंतं वा साइज्जइ॥ सू० १०॥ छाया-यो भिक्षुर्नवब्रह्मचर्याणि अवाचयित्वा उपरिमसूत्र वाचयति वाचयन्तं वा स्वदते ॥सू० १८ ॥ ___चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिवखू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'णववंभचेराई' नवब्रह्मचर्याणि-आचारागस्घ्रस्य प्रथमश्रुतस्कन्धगतानि शस्त्रपरिज्ञादीनि महापरिज्ञापर्यन्तानि नवाध्ययनानि, अत्र नवब्रह्मचर्यग्रहणेन सर्वोऽपि आचारो गृहीतो भवति, अथवा सर्वोऽपि चरणानुयोगो गृहीतो भवति, एतादृशानि नवब्रह्मचर्याणि 'अवाएत्ता' अवाचयित्वा 'उवरिमसुर्य' उपरिमश्रुतम् छेदसूत्रम् 'वाएइ' वाचयति-अध्यापयति-अधीते वा ब्रह्मचर्याद्याचाराङ्ग प्रथमतोऽवाचयित्वा यः श्रमणः श्रमणी वा धर्मानुयोगम् समुस्थानसूत्रादि वा वाचयति, यद्वा सूर्यप्रज्ञप्त्यादिकं गणितानुयोग वाचयति, अथवा दृष्टिवादं द्रव्यानुयोग वाचयति, अथवा यदा चरणानुयोगो वाचितो भवेत्तदा धर्मानुयोगमवाचयित्वा गणितानुयोगं वाचयति । एवम् 'वाएंतं वा साइज्जई' वाचयन्तं वा श्रमणान्तरं यः स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १८ ॥ सूत्रम्-जे भिक्खू अपत्तं वाएइ वाएतं वा साइज्जइ सू०१९॥ छाया-यो भिक्षुः अपात्र वाचति वाचयन्तं वा स्वदते ॥१९॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अपत्तं' अपात्रम्-अनधिकारिणम् , यो हि शालवाचनाग्रहणस्य नाधिकारी तादृशमपात्रम् श्रमणं तद्भिन्नं वा

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541