Book Title: Nishith Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चर्णिभाष्यावचूरि. उ० २०सू३०-३३ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधिः ४५१ विशेषस्त्वयम्-अन सूत्रे सर्व प्रायश्चित्तमारोपणासहितम् 'सबीसइराइया चत्तारि मासा' सविंशतिरत्रिका विंशत्यहोरात्रसहिताश्चत्वारो मासाः प्रायश्चित्तरूपेण भवन्तीति, शेषं पूर्ववदिति ।। सू०२९॥
सूत्रम्-सवीसइराइयं चाउम्मासियं परिहारहाणं पट्टविए अणगारे अंतरा दोमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुं सह सकारणं अहीणमइरित्त तेण परं सदसराइया पंच मासा ॥ सू० ३०॥
छापा-सविंशतिरात्रिक चातुर्मासिकं परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विशतिरात्रिकी आरोपणा आदि. मध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्तं तेन परं सदशरात्रिका पञ्च मासाः ॥३०॥ ____ चूर्णी-'सवीसइराइयं' इत्यादि । सबीसइराइयं चाउम्मासियं' सविंशतिरात्रिक चातुर्मासिकम् विंशतिरात्रिसहितमासचतुष्टयसंपादनयोग्यम् 'परिहारहाणं' परिहारस्थानम् , अत्र विंशत्यहोरात्रसहितेषु चतुर्पु मासेषु विंशत्यहोरात्रिकारोपणासंमेलने सर्वे 'सदसराइया पंच मासा' इति दशाहोरात्रसहिताः पञ्च मासाः प्रायश्चित्तत्वेन भवन्ति, शेषं सर्व पूर्ववदेव व्याख्येयमिति ।। सू०३०॥
सूत्रम्-सदसराइयं पचमासियं परिहारहाणं पट्टविए अणगारे अंतरा दोमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअट्ठ सहेउं सकारण अहीणमइरितं तेण परं छम्मासा ।। सू० ३१॥
छाया-सदशरात्रिनं पाञ्चमासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विशतिरात्रिकी आरोपणा आदिमध्यावसाने साथै सहेतुं सकारणमहीनमतिरिक्तं तेन परं पण्मासाः ॥३१
चूर्णी-'सदसराइयं' इत्यादि । 'सदसराइयं पंचमासिकं' सदशरात्रिकं पाञ्चमासिकम्, पूर्वसूत्रसंप्राप्तं दशाहोरात्रसहितं पाञ्चमासिकम्, शेष सर्व पूर्ववद् व्याख्येयम् , विशेषस्त्वयम्-अत्र दशाहोरात्रिक पाञ्चमासिकप्रायश्चित्ते विंशतिरात्रिकी आरोपणा भवति 'तेण परं छम्मासा' ततः सर्वसंकलिताः षड् पासा भवन्ति, न षण्मासादधिकं प्रायश्चित्तं भवतीति ।। सू० ३१ ॥
अथ पाण्मासिकादिपरिहारस्थानप्रस्थापनायां मासिकपरिहारस्थानप्रतिसेवनायां पाक्षिकारोपणाविषयं प्रायश्चित्तविधि प्रदर्शयति-'छम्मासियं' इत्यादि ।
सूत्रम्-छम्मासियं परिहारहाणं पट्टविए अणगारे अंतरा मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541