Book Title: Nishith Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 447
________________ चूर्णिभाष्यावचूरिः उ० १९ सू० २१ - २३ अव्यक्तव्यक्तादीनां वाचनादानादाननिषेधः ४२५ यः खलु आचार्यै प्रति असबद्धप्रलापी, वामावर्त्तस्तु स यः खलु आचार्यस्य प्रतिकूलं कार्यं करोति, पिशुनः स यः परोक्षनिन्दकः ( चुगलखोर) इति भाषाप्रसिद्धः, एत्ते अपात्राः प्रवचन वाचनानधिकारिणः, एतेभ्यो यः प्रवचनस्य वाचनां ददाति स प्रायश्चित्तभागी भवति । यः खलु आचार्यः श्रमणः श्रमणी वा विपरीतम् - एतद्भिन्नं पात्रं वाचनाधिकारिणं न वाचयति स आज्ञा भङ्गादिदोषान् मिथ्यात्वं च प्राप्नोति, तस्येमे दोषा भवन्ति, तथाहि--यदि पात्रमपि न वाचयति तदा लोके महती अपकीर्त्तिर्भवति यदयं योग्यमपि न वाचयति, एवं प्रवचनस्य हानिरपि भवति एवं पात्रं यदि न वाचयति तदा क्रमशः सूत्रार्थयोरुच्छेदोऽपि स्यात्, तस्मात् पात्रं तु अवश्यमेव वाचयेत् ततश्च यः श्रमणः श्रमणी वा मपात्रं वाचयति तथा पात्रं न वाचयति स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति तस्मादपात्रं न वाचयेत्, पात्रं तु देशकालादिकमाश्रित्य अवश्यमेव वाचयेदिति ॥ सू० २० ॥ सूत्रम् - जे भिक्खू अव्वत्तं वाएइ वाएंतं वा साइज्जइ ॥ सू० २१ ॥ छाया -- यो भिक्षुरव्यक्तं वाचयति वाचयन्तं वा स्वदते ॥२१॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अव्वत्तं चाएइ 'अव्यक्तं वाचयति, तत्र अव्यक्तः यावत्पर्यन्तं कक्षादिषु रोमाणि न भवन्ति तावत् सोऽव्यक्तः, अथवा यावत्पर्यन्तं पोडशवर्ष परिमितो न भवति तावदव्यक्तः, एतादृशमव्यक्तं यः श्रमणः श्रमणी वा वाचयति दृष्टिवादादिशास्त्रवाचनां दादाति तथा 'वाएंतं वा साइज्जइ' वाचयन्तं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २१|| सूत्रम् -- जे भिक्खू वत्तं ण वाएइ ण वाएंतं वा साइज्जइ ॥ सू० २२॥ छाया -- यो भिक्षुव्यक्तं न वाचयति न वाचयन्तं वा स्वदते ॥ सू० २२ || चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'वत्तं ण वाएइ' व्यक्तं न वाचयति, तत्र कक्षादिषु जातरोमा व्यक्तः, अथवा परिसमाप्तषोडशवर्षो व्यक्तः, एतादृशं व्यक्तं यः श्रमणो वाचनां न ददाति तथा 'ण वाएंतं वा साइज्जइ' नं वाचयन्तं - व्यक्ताय वाचनामददतं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २२॥ सूत्रम् — जे भिक्खू दोन्हं सरिसगाणं एवं सिक्खावेइ एक न सिक्खावे, एकं वाएइ एक्कं न वाएइ, एक्कं सिक्खावेंतें एक्कं न सिक्खातं वा, एक्कं वाएं एक्कं ण वाएंतं वा साइज्जइ ॥ सू० २३ ॥ छाया - यो भिक्षु द्वयो. सदृशयोरेकं शिक्षयति पकं न शिक्षयति एकं वाचयति एकं न वाचयति, पकं शिक्षयन्तं एकं न शिक्षयन्तं वा, एकं वाचयन्तं पक्कं न वॉच यन्तं वा स्वदते ॥ सू० २३ ॥ ५४

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541