________________
चूर्णिभाष्यावचूरिः उ० १९ सू० २१ - २३ अव्यक्तव्यक्तादीनां वाचनादानादाननिषेधः ४२५ यः खलु आचार्यै प्रति असबद्धप्रलापी, वामावर्त्तस्तु स यः खलु आचार्यस्य प्रतिकूलं कार्यं करोति, पिशुनः स यः परोक्षनिन्दकः ( चुगलखोर) इति भाषाप्रसिद्धः, एत्ते अपात्राः प्रवचन वाचनानधिकारिणः, एतेभ्यो यः प्रवचनस्य वाचनां ददाति स प्रायश्चित्तभागी भवति ।
यः खलु आचार्यः श्रमणः श्रमणी वा विपरीतम् - एतद्भिन्नं पात्रं वाचनाधिकारिणं न वाचयति स आज्ञा भङ्गादिदोषान् मिथ्यात्वं च प्राप्नोति, तस्येमे दोषा भवन्ति, तथाहि--यदि पात्रमपि न वाचयति तदा लोके महती अपकीर्त्तिर्भवति यदयं योग्यमपि न वाचयति, एवं प्रवचनस्य हानिरपि भवति एवं पात्रं यदि न वाचयति तदा क्रमशः सूत्रार्थयोरुच्छेदोऽपि स्यात्, तस्मात् पात्रं तु अवश्यमेव वाचयेत् ततश्च यः श्रमणः श्रमणी वा मपात्रं वाचयति तथा पात्रं न वाचयति स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति तस्मादपात्रं न वाचयेत्, पात्रं तु देशकालादिकमाश्रित्य अवश्यमेव वाचयेदिति ॥ सू० २० ॥
सूत्रम् - जे भिक्खू अव्वत्तं वाएइ वाएंतं वा साइज्जइ ॥ सू० २१ ॥
छाया -- यो भिक्षुरव्यक्तं वाचयति वाचयन्तं वा स्वदते ॥२१॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अव्वत्तं चाएइ 'अव्यक्तं वाचयति, तत्र अव्यक्तः यावत्पर्यन्तं कक्षादिषु रोमाणि न भवन्ति तावत् सोऽव्यक्तः, अथवा यावत्पर्यन्तं पोडशवर्ष परिमितो न भवति तावदव्यक्तः, एतादृशमव्यक्तं यः श्रमणः श्रमणी वा वाचयति दृष्टिवादादिशास्त्रवाचनां दादाति तथा 'वाएंतं वा साइज्जइ' वाचयन्तं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २१||
सूत्रम् -- जे भिक्खू वत्तं ण वाएइ ण वाएंतं वा साइज्जइ ॥ सू० २२॥
छाया -- यो भिक्षुव्यक्तं न वाचयति न वाचयन्तं वा स्वदते ॥ सू० २२ ||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'वत्तं ण वाएइ' व्यक्तं न वाचयति, तत्र कक्षादिषु जातरोमा व्यक्तः, अथवा परिसमाप्तषोडशवर्षो व्यक्तः, एतादृशं व्यक्तं यः श्रमणो वाचनां न ददाति तथा 'ण वाएंतं वा साइज्जइ' नं वाचयन्तं - व्यक्ताय वाचनामददतं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २२॥
सूत्रम् — जे भिक्खू दोन्हं सरिसगाणं एवं सिक्खावेइ एक न सिक्खावे, एकं वाएइ एक्कं न वाएइ, एक्कं सिक्खावेंतें एक्कं न सिक्खातं वा, एक्कं वाएं एक्कं ण वाएंतं वा साइज्जइ ॥ सू० २३ ॥ छाया - यो भिक्षु द्वयो. सदृशयोरेकं शिक्षयति पकं न शिक्षयति एकं वाचयति एकं न वाचयति, पकं शिक्षयन्तं एकं न शिक्षयन्तं वा, एकं वाचयन्तं पक्कं न वॉच यन्तं वा स्वदते ॥ सू० २३ ॥
५४