________________
૨૪
___ . निशीथसत्रे 'वाइए' वाचयति-वाचनां ददाति. तत्र कोयमपात्रको यस्मै वाचनां न दद्यात् । तत्रोच्यते-अपात्रको नाम क्रमानधीतश्रुतकः यथाक्रम श्रुतं यो नाधीतवान् सोऽपात्रकः अयोग्य इति, तस्मै-ताहशाय अपात्राय वाचनां ददाति, तथा 'वाएंतं वा साइज्जई' वाचयन्तं वा श्रमणान्तरं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति, यतो हि अपात्राय वाचनादाने स तदत्तां वाचनां वैपरीत्येन परिणमयति तदा तद्वाचनादाता तदोषभाग भवति, उक्तं चात्र
"आमे घडे निहितं, जहा जलं तं घडं विणासेइ । इय सिद्धतरहरसं, अप्पाहारं विणासेइ ॥१॥” इति । छाया-आमे (अपक्वे) घटे निहितं यथा जलं घटं विनाशयति ।
इति सिद्धान्तरहस्यं अल्पाधारं विनाशर्यात ॥१९॥ इति सू० १९ । जे भिक्खू पत्तं ण वाएइ ण वाएतं वा साइज्जइ ॥सू० २०॥ छाया-यो भिक्षुः पात्र न वाचयति न वाचयन्तं वा स्वदते । सू० २०॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी' वा '
पण वाएइ' पात्रं न वाचयति, तत्र-अपात्रप्रतिपक्षभूतं पानं वाचनाग्रहणयोग्यम् अवस्थाविनयादिभियोग्यं क्रमाधीतश्रुतं वा श्रमणं वाचनां न ददाति तथा 'ण वाएंतं वा साइज्जई' न वाचयन्तं वा, न वाचयन्तमिति-अवाचयन्त-पात्राय वाचनामददतं श्रमणान्तरं यः स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ .
अथ कोदशोऽपात्रको यस्मै वाचना न देया, तथा कीद्दशश्च पात्रको यस्मै वाचनाऽदाने दोषस्तत्राह भाष्यकार:भाष्यम्-तितिणिए चलचित्ते, गाणंगणिए य दुब्बलचरित्ते ।
आयरियप्पडिभासी, वामावडे य पिसुणे य ॥१॥ एयं जो वाएई, विवरीयं नो य वायए जो उ ।
आणाभंगप्पभिई दोसे पावेइ सो नियमा ॥२॥ छाया-तितिणिकचलचित्तः गाणंगणिकश्च दुर्वलचरित्रः । ।
•आचार्यप्रतीभाषी वामावतप्रचपिशुनश्च ॥१॥ पतं यो चाचयति, विपरीतं नो च वाचयेद् यस्तु ।
आक्षाभनप्रभृतीन् दोपान प्राप्नोति स नियमात् ॥२॥ अवचूरि:-तत्र तितिणिकः बडवडेंति भाषकः रूक्षस्वभावकः १, चलचित्तः-अस्थिरचित्तः २, गाणंगणिकः स यः खलु कारणं विनैव एकस्मात् गणात् गणान्तरे गच्छति ३, दुर्वलचरित्रः स यः खल मूलगुणोत्तरगुणविराधनायाः प्रतिसेवनां करोति तथा धृतिवलपरिहीनः ४, आचार्यप्रतिभाषी सः