________________
बुर्णिमा यावचूरिः उ०१९ सू०१७-२० सूत्रवाचनोत्क्रमापात्रपात्रवाचनाऽधाचननि० ४२३ तथा यत् सूत्रं यस्य सूत्रत्याग्रेतनं तत् तस्य उपरितनं सूत्रं कथ्यते, यथा दशवैकालिकसूत्रस्यावश्यकसूत्रम् अघस्तनमिति भवति, एवमुत्तराध्ययनसूत्रस्य दशवैकालिकसूत्रमधस्तनं भवति, अथवाद्रव्यक्षेत्रकालभावाः एते सर्वे यत्र समवगाढाः भवन्तीत्युच्यते तत् समवसरणम् । तत् समयसरणं, पुनः किस्वरूपकम् ! तत्रोच्यते-अङ्गम् , श्रुतस्कन्धः, अध्ययनम्, उद्देशकश्व, तत्राङ्गं यथा आचाराङ्गादिकम् तथा च सूत्रकृताङ्गादाचाराङ्गमधस्तनमिति, आ बारागसूत्रमवाचयित्वा यदि सूत्रकृताङ्गसूत्रं वाचयति तदा सूत्रोको दोषो भवति । श्रुतस्कन्धो यथा आवश्यकसूत्रम् , तथावश्यकसूत्रमवाचयित्वा दशवैकालिकसूत्रं वाचयति तदा श्रुतस्कन्धोतो दोषो भवति । अध्ययनं यथा-सामायिकमयाचयित्वा चतुर्विंशतिस्तवं वाचयति तदा अध्ययनोक्तो दोषः, अथवा-शस्त्र परिज्ञाध्ययनमवाचयित्वा लोकविनयनामकमध्ययनं वाचयति तस्य तदा भध्ययनोक्तो दोषो भवति । उद्देशकेषु यथा-शत्रपरिज्ञाध्ययने प्रथमं श्रामण्योद्देशकमवाचयित्वा द्वितीयं पृथिवीकायिकोद्देशकं वाचयति । एवमाचाराङ्गादिसुत्रेष्वपि पूर्वापरातिक्रमणे दोषो ज्ञातव्यः । एवं व्युत्क्रमेण सूत्रार्थवाचना न कर्त्तव्येति ।।सू०१७॥
सूत्रम्--जे भिक्खू णवयंभचेराई अवाएत्ता उवरिमसुयं वाएइ वाएंतं वा साइज्जइ॥ सू० १०॥
छाया-यो भिक्षुर्नवब्रह्मचर्याणि अवाचयित्वा उपरिमसूत्र वाचयति वाचयन्तं वा स्वदते ॥सू० १८ ॥ ___चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिवखू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'णववंभचेराई' नवब्रह्मचर्याणि-आचारागस्घ्रस्य प्रथमश्रुतस्कन्धगतानि शस्त्रपरिज्ञादीनि महापरिज्ञापर्यन्तानि नवाध्ययनानि, अत्र नवब्रह्मचर्यग्रहणेन सर्वोऽपि आचारो गृहीतो भवति, अथवा सर्वोऽपि चरणानुयोगो गृहीतो भवति, एतादृशानि नवब्रह्मचर्याणि 'अवाएत्ता' अवाचयित्वा 'उवरिमसुर्य' उपरिमश्रुतम् छेदसूत्रम् 'वाएइ' वाचयति-अध्यापयति-अधीते वा ब्रह्मचर्याद्याचाराङ्ग प्रथमतोऽवाचयित्वा यः श्रमणः श्रमणी वा धर्मानुयोगम् समुस्थानसूत्रादि वा वाचयति, यद्वा सूर्यप्रज्ञप्त्यादिकं गणितानुयोग वाचयति, अथवा दृष्टिवादं द्रव्यानुयोग वाचयति, अथवा यदा चरणानुयोगो वाचितो भवेत्तदा धर्मानुयोगमवाचयित्वा गणितानुयोगं वाचयति । एवम् 'वाएंतं वा साइज्जई' वाचयन्तं वा श्रमणान्तरं यः स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १८ ॥
सूत्रम्-जे भिक्खू अपत्तं वाएइ वाएतं वा साइज्जइ सू०१९॥ छाया-यो भिक्षुः अपात्र वाचति वाचयन्तं वा स्वदते ॥१९॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अपत्तं' अपात्रम्-अनधिकारिणम् , यो हि शालवाचनाग्रहणस्य नाधिकारी तादृशमपात्रम् श्रमणं तद्भिन्नं वा