________________
vvvvvvvvv
www
निशीथसूत्रे કરશે
सूत्रम्--जे भिक्खू असल्झाइए सज्झायं करेइ करेंतं वा साइज्जइ ॥ छाया -यो भिक्षुरस्वाध्यायिक स्वाध्यायं करोति कुर्वन्तं वा स्वदते । सू० १५॥
चूर्णी. -'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'असज्झाइए' भस्वाध्यायिके काले-सूर्योदयादनन्तरमर्द्धमुहूर्तसमये सूर्यास्तसमयात्पूर्व अर्द्धमुहूर्तसमये तथा रात्रावपि सूर्यास्तसमयादनन्तरममुहूर्तसमये, निशावसानेऽपि सूर्योदयात्पूर्वमर्द्धमुहूर्तसमये, एवं दिवा रात्री च चतुर्यु भस्वाध्यायकालेषु 'समायं स्वाध्यायं सूत्रार्थयोर्वाचनालक्षणम् 'फरेइ' करोति तथा 'करेंत' वा साइज्जई' कुर्वन्तं वा श्रमणान्तरं स्वदते-अनुमोदते तस्याज्ञाभङ्गादिका दोषा भवन्ति ।।सू० १५॥
सूत्रम्--जे भिक्खू अप्पणो असज्झाइए सज्झायं करेइ करेंतं वा साइज्जइ ॥ सू० १६||
छाया-यो भिक्षुरात्मनोऽस्वाध्यायिले स्वाध्यायं करोति कुर्वन्तं वा स्वदते ॥
चूर्गी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अप्पणो असज्झाइए' आत्मनः स्वकीयशरीरसंबन्धिनि अस्वाभ्यायिके काले, सत्र स श्रमणस्यैकविधः-त्रणाशोंभगन्दरादिरूपः, श्रमण्या द्विविधः व्रणादिसमुत्थः १ ऋतुसमुत्थच २, तस्मिन् एतादृशे आत्मनः स्वशरीरस्य सम्बन्धिनि अस्वाध्यायिके काले 'सज्शायं' स्वाध्यायं करोति तथा 'करेंतं वा साइज्जई' आत्मनोऽस्वाध्यायिके काले स्वाध्यायं कुर्वन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १६॥
सूत्रम्-जे भिक्खू हेठिल्लाइं समोसरणाई अवाएत्ता उवरिल्लाई समोसरणाई वाएइ वाएतं वा साइज्जइ ।। मू० १७॥
छाया--यो भिक्षुरधस्तनानि समवसरणानि यवाचयित्वा उपरितनानि समवसर णानि वाचयति वाचयन्तं वा स्वदते ॥सू० १७॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'हेठिल्लाई समोसरणाई' अधस्तनानि आधानि समवसरणानि, तत्र समवसरणमिति मेलनं संमिश्रणं वा, अत्र समवसरणं सूत्रार्थयोः जीवाजीवादिनवपदार्थानां वा संमेलनम् , ततः समवसरणानि समिलितसूत्रार्थरूपाणि 'अवाएत्ता' अवाचयित्वा पूर्वसूत्रविषयिणी वाचनामदत्वा पूर्वसूत्रमनधीत्येत्यर्थः 'उपरिल्लाइं समोसरणाई' उपरितनानि-उत्तरकालिकानि समवसरणानि सूत्रार्थरूपाणि 'वाएई' वाचयति-परेभ्यो वाचनां ददाति एवं 'वाएंतं वा साइज्जई' वाचयन्तमन्यं वा श्रमणान्तरं स्वदते. अनुमोदते स प्रायश्चित्तभागी भवति, तत्र यत् यस्यादिमं सूत्रम् तत् तस्याधस्तनमिति कथ्यते,