________________
४२६ , .
निशीथसूत्र चूर्णी-'जे भिक्खू' इत्याद । 'जे भिक्खू' यः कश्चिद्विक्षुः श्रमणः श्रमणी वा 'दोण्हं सरिसगाण' द्वयोः सदृशयोः विनयबुद्धिम्यां तुल्ययोः द्वयोः, सादृदयं च संविग्नत्वेन समनुज्ञातत्वेन परिणामकत्वेन च, तथा च द्वयोः सविग्नयोर्मध्यात् 'एक्कं सिक्खावेड' एक संविग्नं शिक्षयति-सम्यग् चरणादिसम्बन्धिनी शिक्षा ददाति 'एक्कं न सिक्खावेड' एक संविग्नं न शिक्षयति-चरणादिसंबन्धिनी शिक्षा सम्यक् न ददाति 'एक्कं वाएई' एकं वाचयति-गास्त्रवाचना ददाति 'एक न वाएइ' एकं संविग्नं न वाचयति-वाचनां न ददाति तथा 'एक्कं सिक्खावेत' एक शिक्षयन्तं 'एक्कं न सिक्खातं वा' द्वयोः सदृशयोः संविग्नयोर्मध्यादेकं सविग्नं न संशिक्षयन्तं श्रमणान्तरम् तथा- 'एक्कं वाएंत' एकं वाचयन्तं 'एक्कं न वाएंत' एक द्वयोः सदृशयोः संविग्नयोर्मध्यादेकं संविग्नं न वाचयन्तं श्रमणान्तरं यः स्वदते-अनुमोदते स प्राय. श्चित्तभागी भवति । तथा तस्याऽऽज्ञाभङ्गादिका दोपा अपि भवन्ति । अथ यदि द्वयोः सदृशयोमध्यादेकं शिक्षयति वाचयति च, एकं न शिक्षयति तथैकं न वाचयति तदा को दोषः : इति चेत् अत्राह-तुल्ययोर्द्वयोर्मध्यात् यदि एक शिक्षयेत् एकं वाचयेत् तदा तदुपरि रागः प्रकटितः स्यात् , अथ यं नाध्यापयिष्यति तदुपरि द्वेषः प्रख्यापितो भवेत् , तेन स बहिर्भाव गच्छेत् , तत्प्रत्ययां कर्मनिर्जरां न प्राप्नोति अन्य प्रति स प्रद्वेपं च गच्छेत् , प्रविष्टश्च यत् करिष्यति तन्निमित्तं प्रायश्चित्तं प्रसज्येत । एमिः कारणैः सदृशद्वयोर्मध्यात् एकं शिक्षयेत् अपरं न शिक्षयेत् , एकं वाचयेत् अपरं न वाचयेत् , इत्येवं न कुर्यात् न वा एवं कुर्वन्तमनुमोदयेत् इति, किन्तु यदि शिक्षयेत्तदा द्वावपि शिक्षयेत् यदि न शिक्षयेत् तदा दावपि न शिक्षयेत् मेदबुद्धि न कुर्यादिति भावः ॥ सू० २३॥ .: सूत्रम्--जे, भिक्खू आयरियउवज्झाएहिं अविदिण्णं गिरं आइयइ आइयंतं वा साइज्जइ ॥ सू० २४ ॥
छाया-यो भिक्षुगचार्योपाध्यायैरविदत्तां गिरमाददाति आदतं वा स्वदते ॥२४॥ - चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'आयरियउवज्झाएहि' आचार्योपाध्यायैः आचार्येन उपाध्ययेन उपलक्षणात् रत्नाधिकः 'अविदिणं गिरं' अविदत्तां गिरम् शास्त्रवाणीम् अविदत्ताम्-अनध्यापितां गिरं-सुत्रार्थरूपाम् 'आइयइ' आददाति-स्वीकरोति अधीते इत्यर्थः, यं सूत्रमर्थ वा आचार्य उपाध्यायो वा नाध्यापयति तमपि स्वयमेवाधीते-तदध्ययनं करोति 'अहं बहुश्रुतः सर्वरनिकः' इति कृत्वा गर्वेण आचार्यादिकमनादृत्य स्वयमेव तदध्ययनं करोति तथा 'आइयंतं वा साइज्जई' आददतं वा-आचार्याधनध्यापितं स्वयमेवाधीयानं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति । आचार्यादिमिरदत्ताम्-अनध्यापितां शास्त्रवाचनां यः स्वयं वाचयति तदा तस्य अपूर्णज्ञानत्वेन तदुक्तमादिक भ्रमबुद्ध्या वैपरीत्येन परिणमते, तेन स जिनवचनाशातनां मिथ्यात्वं च प्राप्नोति ॥ सू० २४॥