________________
चूर्णि० उ० १९ सू० २५-३७ अन्यतीथिकादिपार्श्वस्थादीनां वाचनादानाऽऽदाननि० ४२७
सूत्रम्-जे भिक्खू अण्णउत्थियं वा गारत्थियं वा वाएइ वाएंतं वा साइज्जइ ॥ सू० २५ ॥
छाया- यो भिक्षुरन्ययूथिकं वा गृहस्थं वा चाचयति वाचयन्तं वा स्वदते ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियं वा' अन्ययुथिकं - अन्यतीर्थिकं तापसपरिव्राजकादिकम् 'गारस्थियं, गृहस्थ वा 'वाएइ' वाचयति-मूत्रवाचनां ददाति सूत्रमध्यापयति तथा 'वाएंतं वा साइज्जई' वाचयन्तम्एवं वाचनां ददतं श्रमणान्तरं यः श्रमणः श्रमणी वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥२५॥
सूत्रम्--जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा पडिच्छइ पडिच्छंतं वा साइज्जइ ।। सू० २६॥ ___छाया-यो भिक्षुरन्ययूथिकस्य पा गृहस्थस्य वा प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥स. २६ ।।
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियस्स वा' अन्ययूथिकस्य वा तापसपरिव्राजकादिकस्य 'गारस्थियस्स वा गृहस्थस्य वा सकाशात् 'पडिच्छइ' प्रतीच्छति-वाचनां स्वीकरोति, तापसादितो गृहस्थाद् वा सूत्रमर्थ वा अधीते तथा 'पडिच्छंतं वा साइज्जइ' प्रतीच्छन्तं वा तापसादितः सुत्रमर्थ वा अघीयान' श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥२६॥
सूत्रम्-जे भिक्खू पासत्थं वाएइ वाएंतं वा सइज्जइ ।। सू० २७॥ छाया-यो भिक्षुः पार्श्वस्थं वाचयति वाचयन्तं वा स्वदते ॥२७॥
ची—'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षु श्रमणः श्रमणी वा 'पासत्थं' पार्श्वस्थम्-ज्ञानदर्शनचारित्रस्य पार्श्वे-समीपे तिष्ठति यः स पार्श्वस्थः ज्ञानादिसमीपे स्थितः किन्तु न तदाराधकः, स द्रव्येण श्रमणः न तु भावेन, तादृशं पार्श्वस्थं यः श्रमणः श्रमणी वा 'चाएइ' वाचयति-सूत्रार्थयोर्वाचनां ददाति तथा 'वाएतं वा साइज्जई' वाचयन्तं-पार्श्वस्थ सूत्रार्थयोः वाचनां ददतं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।।सू०२७॥
सूत्रम्-जे भिक्खू पासत्थस्स पडिच्छइ पडिच्छंतं वा साइज्जइ ॥ छाया-यो भिक्षुः पार्श्वस्थस्य प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू० २२॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पासत्थस्स' पार्श्वस्थस्य-यथोक्तलक्षणस्य सकाशात् 'पडिच्छइ' प्रतीच्छति-पार्श्वस्थात् सूत्रार्थयोरध्ययन