SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्र • करोति तथा 'पडिच्छंतं वा साइज्जई' प्रतीच्छन्तं वा-सूत्रार्थयोरध्ययनं कुर्वन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति तस्याऽऽज्ञाभङ्गादिका दोषा अपि भवन्ति तस्मात्कारणात् श्रमणः श्रमणी वा पार्श्वस्थ सकाशात् अध्ययनं न कुर्यात् न कुर्वन्तमनुमोदयेदिति ।।सू० २८॥ एवमवसन्नादीनाम् अष्टौ सूत्राणि वाच्यानि तथाहि सूत्रम्--जे भिक्खू ओसन्नं वाएइ० ॥ सू० २९॥ ओसन्नस्स पडिच्छइ ।। सू०३०॥ कुसीलं वाएइ०॥ सू० ३१॥ कुसीलस्स पडिच्छइ० ॥ सू०३२॥ णितियं वाएइ० ॥ सु० ३३ ॥ णितियस्स पडिच्छइ० ॥ सू०३४ ॥ संसत्तं वाएइ० ॥ सू० ३५॥ जे भिक्खू संसत्तस्स पडिच्छइ पडिच्छंतं वा साइज्जइ ॥ सू० २९-३६॥ छाया-यो भिक्षुरवसन्न घाचयति०॥ सू०२९॥ अवसन्नस्य प्रतीच्छति० स्०३०॥ कुशीलं वाचयति० ॥ खू० ३१ ॥ कुशीलस्य प्रतीच्छति ॥ ३२॥ नैत्यिकं वाचयति ॥ सू०३३।। नैत्यिकस्य प्रतीच्छति ॥ सू० ३४|| संसकं वाचयति० ॥ सू० ३५॥ यो भिक्षुः संसकस्य प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू० ३६ ॥ चूर्णी-एपां व्याख्या पार्श्वस्थसूत्रस्येव कर्तव्येति ।। सू० २९-३६ ॥ । सूत्रम्-तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं ॥सू० ३७॥ । निसीहज्झयणे एगूणवीसइमो उद्देसो समत्तो ॥१९॥ छाया-तत् सेवमान आपद्यते चातुर्मासिक परिहारस्थानमुद्घातिकम् ॥सू०३७।। ॥निशीथाध्ययने एकोनविंशतितमोद्देशकः समाप्तः ॥१९॥ चूर्णी-'त' इत्यादि । 'त' तत्-विकृतं-क्रीणातीत्यारभ्य संसक्तस्य प्रतीच्छतीति पर्यन्तम् एकोनविंशत्युदेशकोक्तं प्रायश्चित्तस्थानम् 'सेवमाणे' सेवमानः तस्य प्रतिसेवनां कुर्वन् एकं द्विकमनेक सर्व वा प्रायश्चित्तस्थानं प्रतिसेवमानः 'आवज्जइ' आपद्यते-प्राप्नोति 'चाउम्मासियं' चातुर्मासिकम् 'परिहारद्वाणं' परिहारस्थानं प्रायश्चित्तम् 'उग्याइयं उद्घातिक लघुकमित्यर्थः लघुचातुर्मासिकं प्रायश्चित्तं प्राप्नोतीत्यर्थः ।। सू० ३७॥ इति श्री-विश्वविख्यात-जगहल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापन - प्रविशुद्धगद्यपधनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथमूत्रस्य" । चूर्णिमाध्यावरिरूपायां व्याख्यायाम् एकोनविंशतितमोदेशकः समाप्तः ॥१९॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy