________________
॥ विंशतितमोद्देशकः व्याख्यात एकोनविंशतितमोदेशकः साम्प्रतमवसरप्राप्तो विशतितमोद्देशको व्याख्यायते, अथात्र विंशतितमोद्देशकस्य पूर्वोक्तोद्देशकैः सह कः संबन्धः ? इति चेदत्राह भाष्यकारःभाष्यम्-हत्थकम्मं समारम्भ, वायणंतमुदाहियं ।
एत्थ तस्स विसुद्धहा, पायच्छित्तं निगज्जइ ॥१॥ छाया-हस्तकर्म समारभ्य, वाचनान्तमुदाहृतम् ।
___ अत्र तस्य विशुद्धयर्य प्रायश्चित्तं निगद्यते ॥१॥
अवचूरिः- हस्तकर्म समारभ्य पार्श्वस्थादीनां वाचनादान-ग्रहणपर्यन्तं कुत्सितकर्मप्रकरणं प्रथमोहेशकादारभ्य एकोनविंशतितमोद्देशकपर्यन्तोदेशकेषु बृहत्कल्पादौ च उदाहृतं कथितम् , तादृशप्रायश्चित्तस्थानानां विशुद्धये विशेषतो न किमपि प्रायश्चित्तं प्रतिपादितमित्त्यत्र विंशतितमे उद्देशके तेषां हस्तकर्मादिवाचनादानग्रहणपर्यन्तचरणविराधकप्रायश्चित्तस्थानानां विशुद्धयंथ प्रायश्चितं तथा प्रायश्चित्तप्रकारश्च निगद्यत्ते-प्रतिपाद्यते, अयमेव सम्बन्धः पूर्वोद्देशकैः सह अस्योद्देशकस्य भवति, तदनेन सम्बन्धेन आयातस्यास्य विंशतितमोदेशकस्य प्रथमं सूत्रं व्याख्यायते
सूत्रम्--जे भिक्खू मासिय परिहारहाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स मासियं, पलिउंचियं आलोएमाणस्स दोमासियं ।। सू०१॥
छाया-यो भिक्षुर्मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अप्रतिकुच्याऽऽलोचयतो मासिकं प्रतिकुच्याऽऽलोचयतो द्वैमासिकम् ।।सू० ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्ख्' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'मासियं' मासिकम्, तत्र मासेन निवृत्त मासिकम् 'परिहारहाणं' परिहारस्थानम् , तत्र परिहारः- वर्जनम् यद्वा परिहारो वहनं, प्रायश्चित्तस्य, यद्वा परिहियते-परित्यज्यते यो गुरुसान्निध्यात् स परिहारः पापम् , तथा तिष्ठन्ति प्राणिनः कर्मकलुपिता अस्मिन् इति स्थानम्, परिहारश्च स्थानं चेति परिहारस्थानम् 'पडिसेवित्ता' प्रतिसेव्य-प्रकर्षण तत्सेवनं कृत्वा 'आलोएज्जा' आलोचयेत् गुरुसमीपे स्वकृतं पापस्थानं प्रकाशयेत् 'जह वालो जपंतो' इत्यादिरूपेण आलोचयेत् यथा स्वभावतो विशुद्धो बालकः स्वचरितमकपटभावेन पित्रोः पुरतः प्रकाशयति तथैव गुरुसमीपे सर्व प्रकाशयेदित्यर्थः, तत्र आलोचना नाम यथा आत्मना जानाति तथैव गुरोः समीपे प्रकाशनम्. तत्र अपलिउंचिय आलोएमाणस्स मासियं' अपरिकुच्य आलोचयतो मासिकम् , तत्र परिकुश्चनम्-माया कपटम्, न परिकुच्य इति अपरिकुच्य मायामकृत्वेत्यर्थः, तथा च मायामकृत्वा आलोचयत आलोचनां