Book Title: Nishith Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 448
________________ ४२६ , . निशीथसूत्र चूर्णी-'जे भिक्खू' इत्याद । 'जे भिक्खू' यः कश्चिद्विक्षुः श्रमणः श्रमणी वा 'दोण्हं सरिसगाण' द्वयोः सदृशयोः विनयबुद्धिम्यां तुल्ययोः द्वयोः, सादृदयं च संविग्नत्वेन समनुज्ञातत्वेन परिणामकत्वेन च, तथा च द्वयोः सविग्नयोर्मध्यात् 'एक्कं सिक्खावेड' एक संविग्नं शिक्षयति-सम्यग् चरणादिसम्बन्धिनी शिक्षा ददाति 'एक्कं न सिक्खावेड' एक संविग्नं न शिक्षयति-चरणादिसंबन्धिनी शिक्षा सम्यक् न ददाति 'एक्कं वाएई' एकं वाचयति-गास्त्रवाचना ददाति 'एक न वाएइ' एकं संविग्नं न वाचयति-वाचनां न ददाति तथा 'एक्कं सिक्खावेत' एक शिक्षयन्तं 'एक्कं न सिक्खातं वा' द्वयोः सदृशयोः संविग्नयोर्मध्यादेकं सविग्नं न संशिक्षयन्तं श्रमणान्तरम् तथा- 'एक्कं वाएंत' एकं वाचयन्तं 'एक्कं न वाएंत' एक द्वयोः सदृशयोः संविग्नयोर्मध्यादेकं संविग्नं न वाचयन्तं श्रमणान्तरं यः स्वदते-अनुमोदते स प्राय. श्चित्तभागी भवति । तथा तस्याऽऽज्ञाभङ्गादिका दोपा अपि भवन्ति । अथ यदि द्वयोः सदृशयोमध्यादेकं शिक्षयति वाचयति च, एकं न शिक्षयति तथैकं न वाचयति तदा को दोषः : इति चेत् अत्राह-तुल्ययोर्द्वयोर्मध्यात् यदि एक शिक्षयेत् एकं वाचयेत् तदा तदुपरि रागः प्रकटितः स्यात् , अथ यं नाध्यापयिष्यति तदुपरि द्वेषः प्रख्यापितो भवेत् , तेन स बहिर्भाव गच्छेत् , तत्प्रत्ययां कर्मनिर्जरां न प्राप्नोति अन्य प्रति स प्रद्वेपं च गच्छेत् , प्रविष्टश्च यत् करिष्यति तन्निमित्तं प्रायश्चित्तं प्रसज्येत । एमिः कारणैः सदृशद्वयोर्मध्यात् एकं शिक्षयेत् अपरं न शिक्षयेत् , एकं वाचयेत् अपरं न वाचयेत् , इत्येवं न कुर्यात् न वा एवं कुर्वन्तमनुमोदयेत् इति, किन्तु यदि शिक्षयेत्तदा द्वावपि शिक्षयेत् यदि न शिक्षयेत् तदा दावपि न शिक्षयेत् मेदबुद्धि न कुर्यादिति भावः ॥ सू० २३॥ .: सूत्रम्--जे, भिक्खू आयरियउवज्झाएहिं अविदिण्णं गिरं आइयइ आइयंतं वा साइज्जइ ॥ सू० २४ ॥ छाया-यो भिक्षुगचार्योपाध्यायैरविदत्तां गिरमाददाति आदतं वा स्वदते ॥२४॥ - चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'आयरियउवज्झाएहि' आचार्योपाध्यायैः आचार्येन उपाध्ययेन उपलक्षणात् रत्नाधिकः 'अविदिणं गिरं' अविदत्तां गिरम् शास्त्रवाणीम् अविदत्ताम्-अनध्यापितां गिरं-सुत्रार्थरूपाम् 'आइयइ' आददाति-स्वीकरोति अधीते इत्यर्थः, यं सूत्रमर्थ वा आचार्य उपाध्यायो वा नाध्यापयति तमपि स्वयमेवाधीते-तदध्ययनं करोति 'अहं बहुश्रुतः सर्वरनिकः' इति कृत्वा गर्वेण आचार्यादिकमनादृत्य स्वयमेव तदध्ययनं करोति तथा 'आइयंतं वा साइज्जई' आददतं वा-आचार्याधनध्यापितं स्वयमेवाधीयानं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति । आचार्यादिमिरदत्ताम्-अनध्यापितां शास्त्रवाचनां यः स्वयं वाचयति तदा तस्य अपूर्णज्ञानत्वेन तदुक्तमादिक भ्रमबुद्ध्या वैपरीत्येन परिणमते, तेन स जिनवचनाशातनां मिथ्यात्वं च प्राप्नोति ॥ सू० २४॥

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541