Book Title: Nishith Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 444
________________ vvvvvvvvv www निशीथसूत्रे કરશે सूत्रम्--जे भिक्खू असल्झाइए सज्झायं करेइ करेंतं वा साइज्जइ ॥ छाया -यो भिक्षुरस्वाध्यायिक स्वाध्यायं करोति कुर्वन्तं वा स्वदते । सू० १५॥ चूर्णी. -'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'असज्झाइए' भस्वाध्यायिके काले-सूर्योदयादनन्तरमर्द्धमुहूर्तसमये सूर्यास्तसमयात्पूर्व अर्द्धमुहूर्तसमये तथा रात्रावपि सूर्यास्तसमयादनन्तरममुहूर्तसमये, निशावसानेऽपि सूर्योदयात्पूर्वमर्द्धमुहूर्तसमये, एवं दिवा रात्री च चतुर्यु भस्वाध्यायकालेषु 'समायं स्वाध्यायं सूत्रार्थयोर्वाचनालक्षणम् 'फरेइ' करोति तथा 'करेंत' वा साइज्जई' कुर्वन्तं वा श्रमणान्तरं स्वदते-अनुमोदते तस्याज्ञाभङ्गादिका दोषा भवन्ति ।।सू० १५॥ सूत्रम्--जे भिक्खू अप्पणो असज्झाइए सज्झायं करेइ करेंतं वा साइज्जइ ॥ सू० १६|| छाया-यो भिक्षुरात्मनोऽस्वाध्यायिले स्वाध्यायं करोति कुर्वन्तं वा स्वदते ॥ चूर्गी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अप्पणो असज्झाइए' आत्मनः स्वकीयशरीरसंबन्धिनि अस्वाभ्यायिके काले, सत्र स श्रमणस्यैकविधः-त्रणाशोंभगन्दरादिरूपः, श्रमण्या द्विविधः व्रणादिसमुत्थः १ ऋतुसमुत्थच २, तस्मिन् एतादृशे आत्मनः स्वशरीरस्य सम्बन्धिनि अस्वाध्यायिके काले 'सज्शायं' स्वाध्यायं करोति तथा 'करेंतं वा साइज्जई' आत्मनोऽस्वाध्यायिके काले स्वाध्यायं कुर्वन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १६॥ सूत्रम्-जे भिक्खू हेठिल्लाइं समोसरणाई अवाएत्ता उवरिल्लाई समोसरणाई वाएइ वाएतं वा साइज्जइ ।। मू० १७॥ छाया--यो भिक्षुरधस्तनानि समवसरणानि यवाचयित्वा उपरितनानि समवसर णानि वाचयति वाचयन्तं वा स्वदते ॥सू० १७॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'हेठिल्लाई समोसरणाई' अधस्तनानि आधानि समवसरणानि, तत्र समवसरणमिति मेलनं संमिश्रणं वा, अत्र समवसरणं सूत्रार्थयोः जीवाजीवादिनवपदार्थानां वा संमेलनम् , ततः समवसरणानि समिलितसूत्रार्थरूपाणि 'अवाएत्ता' अवाचयित्वा पूर्वसूत्रविषयिणी वाचनामदत्वा पूर्वसूत्रमनधीत्येत्यर्थः 'उपरिल्लाइं समोसरणाई' उपरितनानि-उत्तरकालिकानि समवसरणानि सूत्रार्थरूपाणि 'वाएई' वाचयति-परेभ्यो वाचनां ददाति एवं 'वाएंतं वा साइज्जई' वाचयन्तमन्यं वा श्रमणान्तरं स्वदते. अनुमोदते स प्रायश्चित्तभागी भवति, तत्र यत् यस्यादिमं सूत्रम् तत् तस्याधस्तनमिति कथ्यते,

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541