Book Title: Nishith Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 443
________________ पूर्णिभाष्यावचूरिः उ० १९ सू० १३-१६ कालानपेक्षस्वाध्यायकरणाकरणनिषेधः ४२१ चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्ख' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'पोरिसिं' पौरुषीम् अहोरात्रयोः प्रथमचरमकालभावित्वेन चतुर्विधां पौरुषीम्, कथम्भूताम् ? 'सज्झायं' स्वाध्यायी-स्वाध्याययोग्यां, यत. कालिकश्रुतस्य अहोरात्राभ्यन्तरे चतुःपौरुपीरूपाश्चत्वारः स्वाध्यायकाला भवन्ति तादृशीः स्वायाययोग्याश्चतस्रः पौरुपीः चतुःसख्यकाः पौरुषोरित्यर्थः, 'उबाइणावेई' अतिक्रामति पौरुषीकाले स्वाध्यायं न करोति. तथा 'उबाइणावेतं वा साइज्जइ' पौरुषीकालिकस्वाध्यायमतिकामन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति । तदेव विशपते-दिवसस्य प्रथमचरमकालभाविन्यौ । पौरुष्यो, एवं रात्रेः प्रथमचरमकालभाविन्यौ द्वे पौरुण्यो, एवमहोरात्रमध्ये चतन्नः पौरुथ्यो भवन्ति, एतासु चतसृष्वेव पौरुपीपु कालिकश्रुतस्य स्वाध्यायो गुणनं वा भवितुमर्हति, अन्यासु. अहोरात्रसम्बधिद्वितीयतृतीयरूपासु चतस्पु पौरुषीषु एवं क्रमः-दिवसस्य द्वितीयपौरुष्यामुत्कालिकथुतस्य ग्रहणं ध्यानं वा कुर्यात्, अर्थ वा शृणुयात् । ततीयपौरुप्यां भिक्षार्थहिण्डनं, तदभावे उत्कालिकश्रुतस्य पठनं पूर्वगृहीतस्य गुणनं तदर्थश्रवण वा कुर्यात् । एवं सद्वितीयोरुप्यामुत्कालिकश्रुतस्य ग्रहणं ध्यानमर्थश्रवणं वा कुर्यात्, वतीयपौरुण्यां निद्रां तन्मोक्षं च कुर्यात् , अथवोत्कालिकस्य ग्रहणं गुणनं या कुर्यात् । उकंच शास्त्रे.-"पढमे पोरिसी सज्झायं, बीए झाणं झियायइ । तइयाए भिक्खायरियं, चउत्थीए गुणोवि सज्झायं ॥१॥ पढमे पोरिसी सज्झाय वीए झाणं झियायइ । तइयाए निदमोक्खं च, चउत्थीए पुणोवि सज्झायं ॥२॥" इति । छाया-प्रथमायां पौरुभ्यां स्वाध्याय, द्वितीयायां ध्यानं ध्यायति । तृतीयायां भिक्षाचर्या, चतुर्थी पुनरपि स्वाध्यायम् ॥शा दिवसे । प्रथमायां पोरुप्या स्वाध्याय, द्वितीयायां ध्यान ध्यायति । तृतीयायां निद्रां तन्मोक्षं च (कुर्यात्) चतुर्थी पुनरपि स्वाध्यायम् ॥रात्रो॥ सूत्रम्-जे भिक्खू चउक्कालं सज्झायं न करेइ न करेंतं वा साइज्जइ ॥ सू० १४ ॥ छाया-यो भिक्षुश्वातुष्काल स्वाध्याय न करोति न कुर्वन्तं वा स्वदते ॥ सू० १४ा ची---'जे भिक्खू' इत्यादि । 'जे भिक्ख' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'चउकालं' चातुष्कालम्-कालचतुष्टयसंबन्धिनं स्वाध्याय दिवसस्य प्रथमप्रहरे चरमप्रहरे च तथा रागः प्रथमप्रहरे चरमप्रहरे चेति अहोरात्रस्य कालचतुष्टये इत्यर्थः 'सज्झायं न करेई' स्वाध्यायं म करोति तथा ' न करेतं वा साइज्जइ' न कुर्वन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥१४॥

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541