Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
नवतवसं० प्रकरणम् स्वोपनवृत्तिः ।
आचारपञ्चके पिण्डदोषवर्णनम् ।
॥
४
॥
45CROCHECASIA
वान् २१, सत्स्वपि दंशमशकादिषु न तत्प्रतीकारवान् २२ ॥ १७॥ ईर्यादिचतुस्समितिपूर्विकामुच्चारादिपरित्यागसमिति पञ्चमी श्रित इति सम्बन्धः, तत्र ई-युगमात्रभून्यस्तदृष्टेर्जन्तुरक्षार्थे पदं पदमुपयोगवतः साधोर्गमनं १ । भाषा नाम विकथाविश्रोतसिकावर्जितस्य साधोर्यकार्ये निरवद्यभाषणं २ । एषणा त्रिविधा-उद्गमोत्पादनैषणा ग्रहणेषणा [ग्रासैषणा] चेति, तत्रोद्गमोत्पादनैपणा द्वात्रिंशद्भदा, यतः-पोडशमेदोद्गमैषणा षोडशभेदा चोत्पादनेषणा, ग्रहणैषणा तु दशभेदा, ग्रासैषणा तु पश्चविधा । तत्रोद्गमैषणायाः षोडश भेदा अमी-आषाकर्म औदेशिकं [पूतिकर्म मिश्रजातं स्थापना प्राभृतिका] प्रादुष्कारः क्रीतं आपमित्यकं परावर्तितं अभिहृतं उद्भिनं मालाहृतं आच्छेद्यं अनिसृष्टं अध्यवपूरकश्चेति । तत्राधाकर्मेति, आधानं आधा प्रणिधानं वा, साधुप्रणिधानेनेत्यर्थः, कर्म-पाकक्रिया आधाकर्म १। औदेशिकमिति उद्देशनमुद्देशो-यावदर्थिकादिप्रयोजनं, तेन निवृत्तमौदेशिकं । पूतिकर्मेति, पूति-अपवित्रं, तस्य कर्म पूतिकर्म, कोऽर्थः १, पवित्रस्य सतो यत्यर्थकृतभक्तादिमीलनेनापवित्रताकरणं ३ । मिश्रजातमिति, गृहिसाधुप्रणिधानलक्षणभावेन जात-पाकभावं गतं भक्तादि मिश्रजातं ४ । स्थापनेति, स्थाप्यते-साधुदानाय कश्चित्कालं यावन्निधीयते इति स्थापना ५। प्राभृतिकेति, 'प्र' इति विवक्षितकालात्प्रथमतः 'आ' इति साधागमनलक्षणमर्यादया 'अवधृता' धारिता यका भिक्षा सा प्राभृता, प्राभृतैव प्राभृतिका ६ । प्रादुष्कार इति, 'प्रादुः' शब्दः प्रकाशार्थः, तस्य करणं प्रादुष्कारः, तद्विशेषितं भक्ताद्यपि स एव, दोपदोषवतोरमेदोपचारात्, एवं सर्वत्र द्रष्टव्यं ७। क्रीतमिति, साधुदानाय मूल्येन गृह्यते स्मेति क्रीतं ८ । आपमित्यकमित्युच्छिन्नं ९ । परावर्तितमिति कृतपरावर्त १० । अभिहृतमिति, अभि-साध्वमिमुखं हृतं-स्थानान्तरादानीतमित्यर्थः ११ । उद्भिनमिति उद्भेदनं कुडलादेः १२ । मालाहत
A-OCIRCROCHECLASS
॥४
॥
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67