Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie + : HICS4ACANCE%%94544 तस्य अतिथेः सङ्गतः-प्राक्पश्चात्कर्मरहितो विभागः अतिथिसंविभागः । अयं चातिथिसंविभागः श्राद्धेन न्यायागतानां कल्पनीयानां वस्तूनां दानेन देशकालोचितः प्रस्तावोचितश्च परमया भक्त्या विधेयः । अस्यातिचाराः पञ्च, ते च यथा-सचित्त निक्षेपणं १ सचित्तपिधानं २ कालातिक्रमः३ परव्यपदेशः४ मत्सरिता ५ चेति । सर्वेष्वपि ब्रतेषु अतिचारभावना पुनरिय-यदाऽनामोगादिनाऽतिक्रमादिना वाऽमुना चरति तदाऽतिचाराः स्युः, अन्यदा तु मङ्गा एवेति । एकविधेकविधेने त्यादिप्रकारगुह्यमाणेप्वमीषु व्रतेषु भडकानां कोटयो भवन्तीति । एतच्च सविशेष ग्रन्थान्तरेभ्योऽवधार्य । चतुर्विधधर्मश्रद्धालुत्वात्तदनुष्ठानेन दानशीलतपोभावभावकः विशेषतश्च दानधर्मरसिकत्वाल्लोकोत्तराद्यतिथिपूजकः सम्यग्दृष्टित्वेन देशविरतत्वेन च निरुद्धप्रथमद्वितीयकपायोदयत्वानिष्कषायः, देवपूजागुरूपास्तिस्वाध्यायसंयमतपोदानलक्षणपविधाचाराचरणेन लोकद्वयविरुद्धवर्जनेन च सदाचारः, तेषां तत्त्वदेवगुरूणामुपासकः श्राद्धः स्यादिति सम्बन्धः ॥ २२ ।। उक्तं श्राद्धस्वरूपं, सम्प्रति धर्महेतुमाहपरोपकरणाद्धर्मः, सबुद्धयाऽद्धासमेधते । सा सदागमसङ्गत्या, तत्तामश्रान्तमाश्रयेत् ॥ २३ ॥ व्याख्या-'परोपकरणात् परहितकरणाद्धर्म:-सम्यक्त्वादिः सबुद्ध्या-पौर्वापर्यपर्यालोचनात्मिकया 'अद्धा' निश्चितं 'समेधते' सम्यग्वृद्धिं याति, सा-बुद्धिः सदागमसङ्गत्या-जिनागमपयुपासनया तत्तस्माचा-सदागमसङ्गतिमश्रान्तमाश्रयेदिति सम्बन्धः ॥ २३ ॥ सदागमसङ्गतिश्रयणाद्विवेकः स्यादिति तमेवाहहेयोपादेयकर्त्तव्य-सम्यग्ज्ञाननिदानभूः । हकः सर्वभावानां, विवेकः समुदाहृतः॥ २४ ॥ व्याख्या-'हेयोपादेयकर्त्तव्येषु' मिथ्यात्वसम्यक्त्वयोर्हानोपादानलक्षणेषु कृत्येषु यत्सम्यग्ज्ञानं, तस्य कारणत्वेन ACACHECACAGA4% AECOGN For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67