Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmande
नवतत्त्वसंकट स्थितिभावप्रदेशैःसा, तीव्रा मन्दाऽथ मध्यमा। कषायैः स्थितिपाकैश्च,षड्लेश्यानां समुद्भवः॥५६॥ प्रकरणम् | व्याख्या-स्थितिभावप्रदेशैः पूर्वोक्तस्वरूपैः सा-कर्मप्रकृतिस्तीबा मन्दाऽथ स्थितिपाकैश्च मध्यमा, कषायैः-क्रोधादिभिः स्वोपज्ञ
कर्मणां स्थितिपरिपाकैः षण्णां लेश्यानां समुद्भव-उत्पत्तिरिति ॥ ५६ ॥ ताश्च तारतम्येन नामतः कार्यतश्च दर्शयन्नाह- निरूपणम्। वृत्तिः ।
तारतम्येन मन्तव्याः, कृष्णा नीला कपिञ्जला। पीता पद्मप्रभा शुक्ला, षडेताः कर्मवन्धिकाः॥५७॥ ॥१९॥ व्याख्या-'तारतम्येन' तरतमभावेन कृष्णाद्याः शुक्लावसाना पडेताः, लेश्या इत्यधिकृतं, कर्मबन्धिका:-कर्मवन्ध-18
विधायिका मन्तव्या इति सम्बन्धः । आसां च स्वरूपमिदम् -
"कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥" ___ कृष्णादिद्रव्याणि तु सकलकर्मप्रकृतिनिस्यन्दभूतानि, एतच्च स्वरूपं लेश्यानां तारतम्येनाभिधीयमानं जम्बूखादकपुरुष-16 षट्कदृष्टान्तेन प्रतिपत्तव्यं, तथाहि-केचन पद् पुरुषा वनं गताः सन्तः फलभरननं जम्बूवृक्षमद्राक्षुः, तदर्शने च तेषां पण्णामपि फलार्थिनां यथाक्रम वृक्ष-शाखा-प्रशाखा-गुच्छ-तत्स्थफलच्छेद-स्वयंपतितग्रहणाध्यवसायाः प्रवर्तन्ते, ते च तारतम्येन तदुत्तरोत्तराध्यवसायवशतः क्रमशः कृष्णादिलेश्यासु षट्पु वर्तन्त इति ।। ५७॥ बन्धानन्तरं मोक्षस्यावसरस्ततस्तमेवाहक्षान्त्यादिगुणयुक्तानां, ज्ञानिनां क्षीणकर्मणाम् । आत्मस्वरूपेऽवस्थान-मात्मनो मोक्ष उच्यते॥५८॥ व्याख्या-क्षान्त्यादिगुणविशिष्टानां 'ज्ञानिना' अप्रतिपातिज्ञानवतां 'क्षीणकर्मणां क्षपिताशेषकर्मांशानां सम्बन्धिन ॥१९॥
For Private And Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67