Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
नवतच्चसं ० प्रकरणम्
स्वोपज्ञ
वृत्तिः ।
॥ २३ ॥
www.kobatirth.org
प्रायश्चित्तं विनीतत्वं वैयावृत्त्यं श्रुतादरः । ध्यानं संहननोत्सर्गः, षोढेत्याभ्यन्तरं तपः ॥ ८३ ॥ व्याख्या- प्रायश्चिनप्रभृतिभिर्भेदैरित्येवं 'पोटा' पद्मकारमाभ्यन्तरं - अन्तःकपायकपणात् तपः । (१ - ) तत्र प्रायश्चित्तं दशधा - आलोचनेप्रतिक्रमणंमिश्र विवेकोत्सर्ग तर्प छेद मूला नवस्थाप्यतापाराञ्चिकेंमेदात् । तत्र आलोचनं गुरोः पुरतः स्वदुश्व४रितप्रकाशनं १ । तथा प्रतीपं क्रमणं प्रतिक्रमणं - अतिचारान्निवृत्य गुणेष्वेव गमनं २ । मिश्रं - आलोचनप्रतिक्रमणरूपमुभयं ३ | विवेकः - अनेषणीयभक्तादित्यागः ४ । व्युत्सर्गः - कायोत्सर्गः ५ । तपस्तु निर्विकृतिकादि ६ । छेदः - तपसा दुर्दमादेः साधो रहोरात्र पञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनं ७ मूलं आकुय्या प्राणातिपातादिषु महाव्रतानां मूलत आरोहणं ८ । अनवस्थाप्यता- दुष्टतरपरिणामस्याकृततपोविशेषस्य व्रतानामारोपणं, एतच्च प्रायश्चित्तं विहितसाधर्मिकेतर सम्बधिक्षुल्लकादिस्तैन्यस्य पूर्वोक्त मध्यात्कस्यापि दत्तहस्तादिप्रहारस्य साधोः स्यात् ९ । पाराञ्चिकमिति, पारं अन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां वा अञ्चति-गच्छतीत्येवं शीलं पाराश्चि तदेव पाराश्चिकं, एतत्प्रायश्चित्तं तु लिङ्गिधाते लिङ्गिनीप्रतिसेवायां तीर्थकरागमाशातनायां च षण्मासेभ्यः प्रभृति द्वादशवर्षाणि यावदवधूतवेषस्य प्रच्छन्नगृहीतसाधुलिङ्गस्य स्यात् १० । (२) विनीतत्वं विनयवत्त्वं विनयश्च सप्तधा - ज्ञानदर्शन चारित्र मनोवाक्कायोपचारभेदात् । तत्राद्यो मत्यादीनां श्रद्धानभक्तिबहुमानतदृष्टार्थ भावनाविधिग्रहणाभ्यां (2) स्वरूपः १ । द्वितीयस्तु सम्यग्दर्शन गुणाधिकेषु शुश्रूषाऽनाशातनाभेदात् द्विविधः, तत्र शुश्रूषाविनयो दशधा तद्यथा-सत्कारः अभ्युत्थानं सन्मानः आसनाभिग्रहः आसनानुप्रेदानं कृर्तिकर्म अञ्जलिग्रहः आगच्छदभिर्गमनं स्थिते पर्युपासना गच्छेदनुत्रजनं चेति । एते दशापि भेदाः प्रसिद्धा एव । अनाशातनाविनयस्तु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मोक्षतत्वे द्विविधस्य
तपस:
स्वरूपम् ।
॥ २३ ॥

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67