Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PRE
-34-
%EC
तदनन्तरं च मिथ्यात्वमिश्रसम्यक्त्वलक्षणपुञ्जत्रयसम्भवे मिथ्यात्वमोहनीयक्षयोपशमे क्षायोपशमिकसम्यग्दृष्टिस्तत्क्षये च. क्षायिकसम्यग्दृष्टिः स्यादिति ॥ १०३॥ तदनन्तरं चोत्तरोत्तरगुणप्राध्या केवलज्ञानं स्यादिति श्लोकद्वयेनाहततः क्रमेण सम्प्राप्य, चारित्रं देशसर्वतः । प्राप्तोत्तरोत्तरगुणो, विशुद्धाध्यवसायतः ॥ १०४ ॥ क्षपकश्रेणिमारुह्य, मोहमुन्मूल्य मूलतः। घातिकर्मक्षयाज्ज्ञानं, लभते केवलात्मकम् ॥१०५॥ [ युग्मम् ] ___ व्याख्या--'ततः सम्यक्त्वप्रायनन्तरं 'क्रमेण' परिपाट्या 'सम्प्राप्य' आसाद्य, किं तत् ?, चारित्रं, कथं ? देशसर्वतः४/ देशतः सर्वतश्चेत्यर्थः । जीवः प्राप्तोत्तरोत्तरगुणस्थानको विशुद्धाध्यवसायेभ्यः ॥ १०४॥क्षपकश्रेणि-प्रयु[प्रो] कस्वरूपामारुह्य 'मोह' मोहनीयमुन्मूल्य मृलादेव 'घातिकर्मक्षयात्' ज्ञानदर्शनावरणमोहान्तरायक्षपणाज्ज्ञानं केवलात्मकं लभत इति ॥१०५॥ केवलज्ञानलाभानन्तरं येन क्रमेण मुक्तः स्यात्तं क्रमं श्लोकद्वयेनाह
[युग्मम् ] आन्तौहर्तिकं कालं, विहृत्यासौ जघन्यतः। पूर्वकोटिं च देशोनां, स्थित्वोत्कर्षेण केवली ॥१०६ ॥ योगान्निध्य क्रमशः, क्षीणकर्मचतुष्टयः।ऋजुगत्याऽस्पृशन् गच्छे-ज्ज्ञानात्मा मुक्तिमव्ययाम् ॥१०७॥ ____ व्याख्या-'आन्तमौहूर्तिक' अन्तर्मुहर्तप्रमाणं 'कालं' समयं 'विहृत्य' विहारं कृत्वा असौ-केवली 'जघन्यतः' स्वल्पतः, यद्वा पूर्वस्य प्रमाणं वर्षाणां सप्ततिः कोटिलक्षाः षट्पश्चाशरसहस्राश्च वर्षकोटीनामनेन पूर्वप्रमाणेन पूर्वाणां कोटिं 'देशोना' | वर्षाष्टकन्यूनी, अयमभिप्राय:-अष्टानां वर्षाणां मध्ये व्रताधिकारो नास्ति, तत्परिणामाभावादिति देशोनामित्युक्तं 'स्थित्वा'
%%
%AC
For Private And Personal Use Only

Page Navigation
1 ... 60 61 62 63 64 65 66 67