Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat

View full book text
Previous | Next

Page 64
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuti Gyanmandie व्याख्या-'लोकस्थित्या' लोकस्वभावेन 'सदा सर्वदा 'स्थैर्य स्थिरत्वं । 'व्ययोत्पत्ती' विनाशजन्मनी पुनः पराश्रिते पुद्गलाद्याश्रिते 'धर्माधर्मास्तिकाययो' धर्मास्तिकायस्याधर्मास्तिकायस्य चेति, तस्मात्प्राक्तनोपपच्या 'वैध' त्रिविधत्वं 'व्यवस्थितं' प्रतिष्ठितमिति ॥ ११॥ व्योम ध्रुवं स्वभावेन, पुद्गलद्रव्यचारतः। आपूर्तुत्सारणाभ्यां स्या-दुत्पत्तिव्ययधर्मकम् ॥१११॥ व्याख्या-'व्योम' आकाशं 'ध्रुवं' नित्यं 'स्वभावेन' स्वरूपेण 'पुद्गलद्रव्यचारतः' परमावादिपुद्गलद्रव्यसञ्चारात 'आपूय॒त्सारणाभ्या' आपूरणेन अपसारणेन वा 'स्यादुत्पत्तिव्ययधर्मक' कथञ्चिदुत्पत्तिव्ययस्वरूपमिति ॥ १११ ॥ पुद्गलः पुद्गलत्वेन, नित्यश्चित्रविवर्त्तनः। तदा नृत्या व्ययोत्पत्ती, त्रैगुण्यं तद्धि निश्चितम् ॥११२॥ ___ व्याख्या-पुद्गलः परमाण्वादिः 'पुद्गलत्वेन, द्रव्यत्वेन नित्यः, [किं लक्षणः पुद्गलः ? 'चित्रविवर्त्तन' नानारूपपरिवर्तन शीला, यत्तदोनित्याभिसम्बन्धाद्यदा पुद्गलचित्रविवर्तनस्तदा तस्मिन् 'गयोत्पत्ती' विनाशोत्पत्तिरूपा वर्तना 'नृत्या' नृत्यकारिBा केव नर्तिका समस्ति, अतएव] चित्रविवर्तनत्वेन तस्य त्रैगुण्यं, तत्तस्मात्कारणात् 'हि' स्फुटं 'निश्चितं' निर्णीतमित्यर्थः ॥११२॥ ४ जीवो जीवत्वमाश्रित्य, नित्यः संसरणात्मकः। तस्मादेव व्ययोत्पत्ती, ततस्त्रैधं प्रतिष्ठितम् ॥११३॥ ____ व्याख्या-'जीवः' प्राणी जीवत्वमाश्रित्य नित्यः, किश्चासौ 'संसरणात्मकः' चातुर्गतिकसंसारपरिभ्रमणशीलः, तस्मादेव संसरणाद् व्ययोत्पत्ती तस्य भावात्मकस्य, ततश्चैवं त्रिगुणात्मकत्वं प्रतिष्ठितं-युक्तियुक्तमित्यर्थः ॥ ११३ ॥ RACateeCREA345544 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 62 63 64 65 66 67