Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
नवतच्च सं०
प्रकरणम्
स्वोपज्ञवृत्तिः ।
॥ १८ ॥
www.kobatirth.org
त्यनुभावप्रदेशैश्चतुर्विधः । प्रकृतिः - स्वभावः, स्थितिः - कालावधारणं, अनुभावो-रस एकस्थानकादिः, प्रदेशः - अंश इति ॥ ५२ ॥ बन्धस्तु बन्धनीयकर्मगोचरस्ततस्तान्येव समेदानि श्लोकत्र येणाह -
पञ्चधा ज्ञानावरणं, नवधा दर्शनावृतिः । वेदनीयं द्विधा मोह-स्त्वष्टाविंशतिधा मतः ॥ ५३ ॥ आयुश्चतुर्विधं नाम, स्याच्छतं त्रिभिरुत्तरम्। द्विप्रकारं पुनर्गोत्र-मन्तरायस्तु पञ्चधा ॥ ५४ ॥ अष्टपञ्चाशता युक्तं, शतमित्यष्टकर्मणाम् । भूरिकर्मनिदानैस्तत्, प्रकृतिर्बहुधा मता ॥ ५५ ॥
व्याख्या–‘पञ्चधा' पञ्चप्रकारं 'ज्ञानावरणं' मतिश्रुतावधिमनः पर्याय केवलज्ञानानामावरणं । 'नवधा' नवभिः प्रकारैश्चक्षुरचक्षुरधिकेवलदर्शनावरण-निद्रा-निद्रानिद्रा-प्रचलाप्रचलाप्रचला- स्त्यानाद्धं मे दैर्दर्शनावृतिः । वेदनीयं सातासात भेदाभ्य द्विधा । मोहस्तु-मोहः पुनरष्टाविंशतिधा मतस्तत्र तिम्रो दर्शनमोहनीयप्रकृतयो मिध्यात्वमिश्रसम्यक्त्वरूपाः, पञ्चविंशतिचारित्रमोहनीयप्रकृतयः पूर्वोक्तस्वरूपकषायरूपाः ॥ ५३ ॥ आयुर्नरकतिर्यङ्नरामरभेदैश्चतुर्विधं । 'नाम' नाम[ कर्म, तस्य प्रकृतयो द्विधा - पिण्डप्रकृतयः प्रत्येक प्रकृतयश्च तत्र पिण्डप्रकृतीनां मूलभेदाश्चतुर्दश, तद्यथा-गतिर्जातिः शरीरमङ्गोपाङ्ग बन्धनं ] सङ्घातः संहननं संस्थानं वर्णः गन्धः रसः स्पर्शः आनुपूर्वी विहायोगतिश्चेति । तत्र गतिर्नश्कतिर्यङ्नरामरमेदैचतुर्विधा । जातिरेकद्वित्रिचतुष्पञ्चेन्द्रियैः पश्चधा । शरीरमोदारिक वैक्रिया-हारक- तैजस-कार्मणभेदैः पञ्चविधं । अङ्गोपाङ्गमौदारिक-वैक्रिया-हारकमेदैस्रिविधं । बन्धनं पञ्चदशभेदं तद्यथा - औदारिकौदारिकबन्धनं औदारिकतैजसबन्धनं औदारिक
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
बन्धतवे
ज्ञानावर
णादिकर्म
चतुष्क
प्रकृतयः ।
॥ १८ ॥

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67