Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shirikissagarsur Gyarmandie 4-30-40%ACHCRACIDCASHANCHAL जीवप्रस्तावाच जीवगुणस्थानकानि चतुर्दश श्लोकद्वयेनाहमिथ्या सोस्वादन मिश्रा-विरैतौ देशंसंयतः। प्रमत्ताप्रमत्ताप्रर्व-करणाश्चानिवृक्तिकः ॥ ३९ ॥ सूक्ष्मसम्परायस्तथो-पशान्तक्षीणमोहकौ। सेयोगायोगिनौ ज्ञेया-श्चतुर्दश गुणाः क्रमात् ॥४०॥ [युग्मम् ] व्याख्या-मिथ्याद्या अयोग्यन्ताश्चतुर्दश गुणा-अवयवे समुदायोपचाराद् गुणस्थानकानि 'क्रमात्' परिपाट्या ज्ञेया इत्यन्वयः । तत्र मिथ्येति भावप्रधानो निर्देश इति मिथ्यात्वं-तत्वा[A] श्रद्धानरूपं १ । आस्वादनं-अनन्तानुबन्धिकषायवेदनं, सह आस्वादनेन वर्त्तते सास्वादन, एतच्चानन्तानुबन्धिकषायोदयेऽन्तरकरणभाविप्रतिपतदौपशमिकसम्यक्त्वस्य जीवस्य जघन्यत | एकसमयमानमुत्कर्षतश्च पडावलिकामानं भवतीति २। मिश्रश्वावयवे समुदायव्यपदेशान्मिश्रदृष्टिः, ततश्च मिश्रा-सम्यक मिथ्या च दृष्टिर्यस्य स मिश्रदृष्टिः, स्थानस्थानवतोरमेदोपचारात् , अयं चान्तर्मुहूर्त भवति, ततः परं मिथ्यादृष्टिः सम्यग्दृष्टिर्वा स्यात् ३ । न विरतमस्यास्तीति अविरतः, एतस्य ज्ञानमेव, ज्ञानं सम्यग्दृष्टिरिति न्यायात् , विरतिः पुनः प्रत्याख्यानावरणकषायोदयवशान्न स्यात् ४ । देशे संयतो देशसंयतः, विरताविरत इत्यर्थः ५। प्रमत्ता-कषायादिप्रमादानामन्यतरेण प्रमादेन प्रमादवान् ६ । अप्रमत्तः-प्रमादरहितः ७। अपूर्व स्थितिघात-रसघात-गुणश्रेणि-गुणसङ्कम-स्थितिबन्धानां पश्चानामर्थानां करणं-निवर्त्तनं यस्यासावपूर्वकरणः, अयं च द्विधा-क्षपक उपशमको वा, क्षपणोपशमनार्हत्वात् , राज्याहराजकुमारवत् , न पुनरसौ क्षपयत्युपशमयति वा ८ । न निवृत्तिरस्यासावनिवृत्तिका, इदमत्र हृदयं-ये किलैतद्गुणस्थानकं युगपदारोहन्ति SCIRCRACK For Private And Personal use only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67