Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ICE%
साम्प्रतं जीवगतमार्गणानां पूर्व तावदष्टौ भेदानाहद्रव्यं क्रोधादयो योगो-पयोगी ज्ञानदर्शने । चारित्रं वीर्यमित्येव-मात्मनो मार्गणाऽष्टधा ॥ ३६॥
व्याख्या--'द्रव्यं' द्रव्यात्मा, कषायवतां क्रोधादयः कषायाः, सयोगानां योगा मनोवाकायरूपाः, सर्वजीवानामुपयोगचैतन्यं, सम्यग्दृष्टीनां ज्ञानं यथार्थावबोधः, दर्शनवतां दर्शनं-सामान्यज्ञानं चक्षुरादिदर्शनं वा, चारित्रवतां चारित्रं-क्रियाऽनुष्ठानं, तदन्तरायक्षयक्षयोपशमवतां वीर्य-शक्तिः । इत्येवं द्रव्यादिभिरष्टभिः प्रकारात्मनो मार्गणाऽष्टधेति सम्बन्धः ।। ३६ ॥
अपरा अपि जीवगतमार्गणाश्चतुर्दश आहगत्यक्षयोगवेदाङ्ग-कर्षायज्ञॉनसंयमैः। गलेश्याँभव्यसम्यक्त्व-साहारेश्च मार्गणाः ॥३७॥ व्याख्या-गत्यादिभिश्चतुर्दशमिर्जीवस्य मार्गणा अपि तावत्यः स्युरिति सम्बन्धः ॥ ३७॥ इदानीं गत्यादीनामेव पृथक्पृथग भेदानाचष्टेगतीन्द्रियादयश्चात्र, चतुष्पश्चादिभेदतः। द्विषष्टिभेदा विज्ञेया, भिद्यमानाः पृथक्पृथक् ॥३८॥
व्याख्या-गतीन्द्रियादयश्चतुर्दशाप्यत्र-मार्गणाविचारे चतुष्पञ्चादिभिर्मेदैर्यथाक्रमं पृथक्पृथगभिद्यमाना द्विषष्टिमेदा विजेया इति तात्पर्यार्थः। ते चामी-नारकतिर्यङ्नरामरलक्षणा गतयश्चतस्रः [४], स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि इन्द्रियाणि पश्च [९], मनोवाक्कायरूपा योगास्त्रयः [१२], स्त्रीपुनपुंसकलक्षणा वेदात्रयः [१५], अङ्गशब्दस्य कायपर्यायत्वात्पृथिव्य
ACARCIPS
For Private And Personal Use Only

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67