Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेदान , एतदतीचाराश्च सहसाभ्याख्यानं [रहस्य मेदः] स्वदारमन्त्रभेदः मृषोपदेशः कूटलेखकरणं चेति । अधुना तृतीयमुच्यतेस्थूलादत्तादानविरतिरिति, स्थूलं-राजविरुद्धत्वेन प्रसिद्धं यददत्तादानं, तस्य विरतिः। एतदतिचाराः पुनरमी-स्तेयेनाहृतं तस्करप्रयोगः विरुद्धराज्यगमनं कूटतुलाकूटमानं तत्प्रतिरूपकक्रिया। चतुर्थ परदारविरतिरिति, परे-आत्मव्यतिरिक्ताः पुरुषाः, मनुजजात्यपेक्षया दिव्यास्तिर्यश्चश्व, तेषां दारा:-परिणीतसङ्ग्रहीतभेदानि कलत्राणि दिव्यास्तिरश्चश्चेति परदारास्तेषां विरतिः । ततश्च परदारवर्जकस्य पुरुषस्य परकलवस्यैव निवृत्तिः, न तु वेश्यायाः [इति चेन्न], उपलक्षणं चेदं, तेन यथा परदारविरतिश्चतुर्थमणुव्रतं तथा स्वदारतुष्टिरपि, ततश्च स्वदारसन्तुष्टस्य श्राद्धस्य न केवलं परकलत्रस्य निवृत्तिः, किन्तु वेश्याया
अपि । अस्यातीचाराः पञ्च, यथा-इत्वरीगमनं अपरिगृहीतागमनं अनङ्गक्रीडा परविवाहकरणं कामे तीव्राभिलापश्चेति । पञ्चमं | परिग्रहविरतिः, परिग्रहः परिगृह्यत इति परिग्राह्यं वस्तु, तस्य परिच्छेदकरणेन विरतिः परिग्रहविरतिः। एषा च क्षेत्र-वास्तुहिरण्य-सुवर्ण-धन-धान्य-द्विपद-चतुष्पद-कुप्यविषया स्यात् , अस्याश्चातीचाराः पञ्च, क्षेत्रवास्तुनोः १ हिरण्यसुवर्णयोः २ धनधान्ययोः ३ द्विपदचतुष्पदयोः ४ कुप्यस्य वा ५, एषां पश्चानां यथाक्रम योजन प्रदान-बन्धनकारणभावैः प्रमाणातिक्रमः । उक्तानि पञ्चाणुव्रतानि, साम्प्रतं गुणवतत्रयमुच्यते, तत्राचं दिग्वतं, दिक् चोधिस्तिर्यग्रूपाः । ऊ -उपरि पर्वता. | दिविषया, अधस्तु तद्विपरीता पविवरादिविषया, तिर्यक् च प्राच्यादिविषया । ऊधिस्तिर्यग्रूपां दिशमाश्रित्य व्रत-गमनपरिमाणरूपं दिग्वतं । एतस्यातीचाराः पञ्च, ऊर्ध्व १ अध २ स्तिर्यग् ३ दिक्प्रमाणातिक्रमः, क्षेत्रवृद्धिः ४ स्मृत्यन्त नं ५ येति । द्वितीयं भोगोपभोगव्रतं, तत्र सकृद्धज्यत इति भोग आहारादिः, पुनः पुनरुपभुज्यत इत्युपभोगो वस्त्रादिः,
R-645464
For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67