Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशव्रत स्वरूपं सातिचारम् । नवतत्त्वसंगत कल्पद्रुमस्य सम्यक्त्वमूलमुक्तं, लिङ्गानि पुनरस्य शुश्रूषाधर्मानुरागगुरुदेववैयावृत्यादीनि, अतिचाराः पुनरस्य पञ्च वर्जनीयास्ते प्रकरणम् चामी-शङ्का काला विचिकित्सा परपाषण्डि[प्रशंसा] परपाषण्डिसंस्तवश्चेति । पञ्चाणुव्रतानि स्थूलप्राणातिपातविरमणादीनि, स्वोपन- तेषां निरतिचारत्वेन पालनात्तत्पालकः । गुणवतत्रयं दिक्परिमाणादिकं, तदाश्रयत्वात्तदाधारः । चत्वारि सामायिकादीनि वृत्तिः । शिक्षाब्रतानि, तेषु कृतप्रयत्नत्वात्तदुच्यते ॥२१॥ अनेन विशेषणत्रयेण पुनरस्य द्वादशवतानि समर्थितानि,तानि चामूनि-स्थूल प्राणातिपातविरतिः स्थूलमृषावादविरतिः स्थूलादत्तादानविरतिः परदारविरतिः परिग्रहविरतिः दिग्वतं भोगोपभोगवतं अनर्थ॥६ ॥ दण्डविरतिः सामायिकं देशावकाशिकं पौषधः अतिथिसंविभागश्चेति १२ । तत्र स्थूलप्राणातिपातविरतेयं शब्दार्थः-स्थूला द्वीन्द्रियादयः, इतरैरपि तीथिकैः प्रतीयमानत्वात , न तु सूक्ष्माः, गृहस्थानां तद्विराधनानिवृत्यसम्मवात् , प्राणा उच्कासादयस्तद्योगात्प्राणिनोऽपि प्राणास्तेषामतिपातो-विनाशस्तस्य विरति-निवृत्तिः । प्राणातिपातश्च द्विविधा-सङ्कल्पत आरम्भतश्च । तत्र सङ्कल्पो-व्यापादनाभिसन्धिः, आरम्भ:-कृष्यादिकः। तत्र सङ्कल्पत एव स्थूलप्राणातिपातं रक्षति गृहस्थः, आरम्भतस्तस्य प्राणोपमर्दसम्भवात् , सापराधनिरपराधलक्षणेन प्रकारान्तरद्वयेनापि द्वैविध्यमस्य, तत्र सापराधे यतना, निरपराधे च निषेधः । एतस्य पश्चाप्यतिचाराः परिहार्याः-वधः [बन्धः] छविच्छेदः अतिभारारोपणं भक्तपानविच्छेदश्चेति । एते पश्चा. प्यxतीचाराः सापेक्षत्वे सति भवन्ति, निरपेक्षत्वे तु व्रतभङ्ग एव । इदानी द्वितीयमणुव्रतमुच्यते-स्थूलमृपावादविरतिरिति, तत्र स्थूलो-महान् रागद्वेषादिजन्यो मृपावादस्तस्य विरतिः, स्थूलमृषावादस्तु पश्चधा-कन्या गो-भूम्यलीक-न्यासहरण कूटसाक्षी. x" पञ्युपसर्गस्य बहुलम् " (है. ३-२-८६ ) इत्यनेन वैकल्पिकं दीर्घत्वम् । HDCASSADOORDANCEDA%ASAN GACEBCA -1 -1 - 15 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67