Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra नवतच्चसं० प्रकरणम् स्वोपज्ञ वृतिः । ॥७॥ *966 www.kobatirth.org तयोतं भोगोपभोगतं । एतच्च भोजनतः कर्मतथ द्विधा, तत्र भोजनतस्तावत् किल श्राद्धेन उत्सर्गतः प्रासुकमेषणीयं च भोक्तव्यं, तदशक्तावनेषणीयमपि सचित्तवर्ज, तदसश्वेऽनन्तकाय बहुवीजकवर्ज । कर्मतोऽपि यद्यकर्मा वर्त्तितुं न शक्नोति श्राद्धस्तदाऽत्यन्त सावधानि कोट्टपालगुप्तिपालप्रभृतीनि खरकर्माणि परिहरेत् । भोजनतस्तावदस्यातिचाराः पश्च, सचितभक्षणं तत्प्रतिबद्धभक्षणं संमिश्रभक्षणं [ अपक्कभक्षणं ] दुष्पक्कभक्षणं चेति । सम्प्रति कर्माश्रित्यास्मिन्नेव व्रते पञ्चदशातिचारा भवन्ति, ते चामी - अङ्गार १ वन २ शकट ३ भाटी ४ स्फोट ५ कर्माणि, दन्त ६ लाक्षा ७ रस ८ केश ९ विष १० वाणिज्यानि, यन्त्रपीलन ११ निर्लाञ्छन १२ दवदान १३ सरोइदतडागादिशोषः १४ असतिपोषश्चेति १५ । तृतीयं गुणव्रतमनर्थदण्डविरतिः, अर्थः- प्रयोजनं, तत्प्रतिषेधोऽनर्थः, दण्ड्यते आत्मा अनेनेति दण्डो-निग्रहः, अनर्थेन दण्डोऽनर्थदण्डः, ऐहिकं कार्यमाश्रित्य निष्प्रयोजनभूतोपमर्देन आत्मनो निग्रह इत्यर्थः, तस्य विरतिरनर्थदण्डविरतिः । अनर्थदण्डश्चतुर्विधस्तद्यथाअपण्यानं प्रमादाचरितं हिंस्रप्रदानं पापोपदेशच । तदतिचाराः पुनरमी - कन्दर्पः १ कौत्कुच्यं २ मौखर्यं ३ संयुताधिकरणं ४ भोगोपभोगातिरेकिता ५ चेति । अमीषां त्रयाणामपि गुणवतत्वमणुव्रतानां गुणोत्पादकत्वात् । चत्वारि शिक्षात्रतानि, शिक्षाअभ्यासस्तत्प्रधानानि व्रतानि शिक्षाव्रतानि - पुनः पुनरासेवनार्हाणि तेषु प्रथमं सामायिकं, समस्य-रागद्वेषविमुक्तस्य जीवस्य आयो-लाभः समायः, समाय एव सामायिकं । एतच्च सामायिकं सावद्येतरयोगपरिहारानुष्ठानस्वभावं विवक्षितकालावधिना चद्विविधं त्रिविधेनेति विकल्पेन गृहीतेऽस्मिन् स्वाध्यायादिरेव विधातव्यो, नारम्भादिः । अत्राह कश्चित् प्रतिपन्नसामायिकस्य जिनस्नपनपूजादिकरणे न दोषः, निरवद्ययोगत्वात्तस्य । यतः सावद्ययोगस्वरूपमिदं - " कम्ममवज्जं जं गर For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir द्वादशव्रतविवरणम् । 1119 11

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67