Book Title: Nandisutram
Author(s): Devvachak, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 202
________________ नन्दिनम् ।।१५६ ।। Jain Education त्रिलोका एव त्रैलोक्यं भेषजादित्वात् स्वार्थे ध्यण् प्रत्ययः, निरीक्षिताश्च ते महिताश्च ते पूजिताश्च ते निरीक्षितमहितपूजिताः । त्रैलोक्येन निरीक्षितमहितपूजिताः त्रैलोक्य निरीक्षितमहितपूजिताः । तत्र निरीक्षिताः- मनोरथपरंपरासंपत्तिसंभवविनिश्चयसमुत्थसम्मद| विकाशिलोचनैः आलोकिताः महिता - यथावस्थिताऽनन्यसाधारणगुणोत्कीर्तन लक्षणेन भावस्तवेन अर्चिताः पूजिताः - सुगन्धिपुष्पप्रचुरप्रक्षेपादिना द्रव्यस्तवेन, 'अतीतप्रत्युत्पन्न अनागतज्ञैः' 'सर्वज्ञैः सर्वदर्शिभिः' प्रणीतं अर्थकथनद्वारेण प्ररूपितं, किं इत्याह- 'द्वादशांगी' श्रुतरूपस्य परम पुरुषस्य अंगानि इव अंगानि द्वादशांगानि - आचारादीनि यस्मिन् तत् द्वादशांगं गणो-गच्छो गुणगणो वा अस्यास्ति इति |गणी - आचार्यः तस्य पिटकं इव पिटकं, सर्वस्वं इत्यर्थः, गणिपिटकं, तद्यथा - ' आयारो' इत्यादि पाठसिद्धं यावत् दृष्टिवादः । अनंगप्रविष्टं अपि आवश्यकादितवतोऽत्प्रणीतत्वात् परमार्थतो द्वादशांगातिरिक्तार्थाभावात् च द्वादशांगग्रहणेन गृहीतं द्रष्टव्यम् । इदं च द्वादशांगादि सर्व एव द्रव्यास्तिकनयमतापेक्षया तत् अभिधेय पंचास्तिकाय भाववत् नित्यं, स्वाम्यसंबंधचिंतायां च स्वरूपेण चिंत्यमानं सम्यक् श्रुतं, स्वामिसंबंधचिंतायां तु सम्यग् दृष्टेः सम्यक् श्रुतं मिथ्यादृष्टेः मिध्याश्रुतम् । एतदेव श्रुतं परिणामतो व्यक्तं दर्शयति-इत्येतत् द्वादशांगं गणिपिटकं यश्चतुर्द्दशपूर्वी तस्य सकलं अपि सामायिकादि बिंदुसारपर्यवसानं नियमात् सम्यक् श्रुतं, ततोऽधोमुखपरिहान्या नियमतः सर्व सम्यक् श्रुतं तावत् वक्तव्यं यावत् अभिन्नदशपूर्विणः - संपूर्णदशपूर्वधरस्य, संपूर्णदशपूर्वरत्वादिकं हि नियमतः सम्यग् दृष्टेः एव न मिथ्यादृष्टेः, तथास्वाभाव्यात्, तथा हि-यथा अभव्यो ग्रंथिदेशं उपागतोऽपि तथा स्वभावत्वात् न ग्रंथेर्भेदमाधातुमलमेवं मिथ्यादृष्टिः अपि श्रुतं अवगाहमानः प्रकर्षतोऽपि तावत् अवगाहते यावत् किंचित् न्यूनानि दश पूर्वाणि भवंति । परिपूर्णानि तु तानि न अवगाढुं शक्रोति, तथास्वभावत्वात् इति, 'तेण परं भन्नइ भयणा' अत्र 'तेण' इति 'व्यत्ययो ऽप्यासा' इति For Private & Personal Use Only अवचूरिसमलंकृतम् ॥१५६॥ jainelibrary.org

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294