Book Title: Nandisutram
Author(s): Devvachak, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिवत्रम् ॥१७५॥
Jain Education
प्रथमथुतस्कंधे । “पिंडेसण (१) सिज्झि (२) रिया ( ३ ) भासजाया ( ४ ) य वत्थ ( ५ ) पाएसा ( ६ ) । उग्गहपडिमा ( १ ) सत्तसत्तिका (१४ ) य भावण (१५) विमुत्ति ( १६ ) ॥ १ ॥ " अत्र 'सेजिरिय'त्ति शय्याध्ययनं ईर्याध्ययनं च । 'वत्थपाएस' त्तिवस्त्र - एषणाध्ययनं पात्र - एषणाध्ययनं च, अमूनि षोडश अध्ययनानि द्वितीयश्रुतस्कंधे । एवमेतानि निशीथवञ्जनि पंचविंशतिः अध्ययनानि भवति, तथा पंचाशीतिः उद्देशनकालाः, कथं चेद् ? उच्यते, इह अंगस्य श्रुतस्कंधस्य अध्ययनस्य उद्देशकस्य च एक एव उद्देशनकालः । एवं शस्त्रपरिज्ञायां सप्त उद्देशन कालाः ७ लोकविजये षट् १३ शीतोष्णाध्ययने चत्वारः १७ सम्यक्त्वा - ध्ययने चत्वारः २१ लोकसाराध्ययने षट् २७ धुताध्ययने पंच ३२ विमोहाध्ययनेऽष्टौ ४० महापरिज्ञायां सप्त ४७ उपधानश्रुते चत्वारः ५१ पिंडैषणायां एकादश ६२ शज्झेषणाध्ययने त्रयः ६५ ईर्याध्ययने त्रयः ६८ भाषाध्ययने द्वौ ७० वस्त्र - एषणाध्ययने द्वौ ७२ पात्रैषणाध्ययने द्वौ ७४ अवग्रहप्रतिमाध्ययने द्वौ ७६ सप्तसप्तिकाध्ययनेषु षट् ८३ भावनायां एकः ८४ विमुक्तौ एक ८५ एवं एते सर्वेऽपि पंडिताः पंचाशीतिः भवंति । एवं समुद्देशनकाला अपि पंचाशीतिर्भावनीयाः, तथा पदाग्रेण परिमाणेन अष्टादशपदसहस्राणि, इह यत्र अर्थोपलब्धिस्तत् पदम् । तथा संख्येयानि अक्षराणि, पदानां संख्येयत्वात् । तथा इह गमाः - अर्थगमा गृह्यंते । अर्थगमा नाम अर्थपरिच्छेदास्ते च अनंताः, एकस्मादेव सूत्रात् अतिशायिमतिमेधादिगुणानां तत्तत् धर्म्मविशिष्टानन्तधर्मात्मकवस्तुप्रतिपत्तिभावात् । तथा अनंताः पर्यायाः ते च खपरमेदभिन्ना अक्षरार्थगोचरा वेदितव्याः, तथा परीताः - परिमिताः त्रसाद्वींद्रियादयः, अनंता ः स्थावराः - वनस्पतिकायादयः, शाश्वता-धर्मास्तिकायादयः कृताः - प्रयोगविस्रसा जन्याः घटसंध्याभ्ररागादयः, एते सर्वेपि त्रसादयो निबद्धा: -सूत्रे स्वरूपतः उक्ता, निकाचिताः - निर्युक्तिसंग्रहणिहेतुउदाहरणादिभिः अनेकधा व्यवस्थापिता
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥१७५॥
ainelibrary.org

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294