Book Title: Nandisutram
Author(s): Devvachak, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 242
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥१९६॥ छचउकनइआई सत्ततेरासियाई । से तं परिकम्मे ॥१॥ तच्च परिकर्मसिद्धश्रेणिकापरिकर्मादि मूलभेदापेक्षया सप्तविधं, मातृकापदाधुत्तभेदापेक्षया अशीतिविध, तच्च समूलोत्तरभेदं सकलमपि सूत्रतोऽर्थतश्च व्यवच्छिन्नं, यथागतसंप्रदायतो वा वाच्यं, एतेषां च सिद्धश्रेणिकापरिकादीनां सप्तानां अपि परिकाणां। आधानि षट्परिकर्माणि खसमयवक्तव्यतानुगतानि खसिद्धांतप्रकाशकानि इत्यर्थः । ये तु गोशालप्रवर्तिता आजीविका पाखंडिनः तत्मते च्युताच्युतश्रेणिका परिकमसहितानि सप्तापि परिकर्माणि प्रज्ञाप्यते । संप्रति एतेषु एव परिकर्मसु नयचिंता, तत्र नयाः सप्त नैगमादयः, नैगमोऽपि द्विधा-सामान्यग्राही विशेषग्राही च, तत्र यः सामान्यग्राही स संग्रहं प्रविष्टो यस्तु विशेषग्राही स व्यवहारं, शब्दादयश्च त्रयोऽपि नया एक एव नयः परिकल्प्यते। तत एवं चत्वार एव नयाः, एतैश्चतुर्भिः नयः आद्यानि षट्परिकर्माणि स्वसमयवक्तव्यतया परिचित्यते । तथा चाह सूत्रकृत्-छ 'चउक्कनइयाई ति आधानि षट् परिकर्माणि चतुर्नयकानि४ चतुर्णयोपेतानि, तथा त एव गोशालकप्रवर्तिता आजीविकाः पाखंडिनः त्रैराशिका उच्यते । कस्मादिति चेदुच्यते ?, इह ते सर्व वस्तु व्यात्मकं इच्छंति, तत्यथा-जीवो अजीवो जीवाजीवश्च, लोकाः अलोको लोकालोकश्च, सदसत् सदसत्, नयचिंतायां अपि त्रिविधं नयं इच्छंति, तद्यथा-द्रव्यास्तिकं पर्यायास्तिकं उभयास्तिकं च, तत् त्रिभिः राशिभिः चरंति इति त्रैराशिकाः तत्मतेन सप्तापि परिकर्माणि उच्यते, तथा चाह-सूत्रकृत्-'सत्ततेरासीया' इति, सप्त परिकर्माणि त्रैराशिकानि त्रैराशिकमतानुयायीनि, एतत् उक्तं भवति पूर्व सूरयो नयचिंतायां त्रैराशिकमतं अवलंबमानाः सप्तापि परिकर्माणि त्रिविधयापि नयचिंतया चिंतयंति स्म इति, तदेतत् परिकर्म।. से किं तं सुत्ताई ? सुत्ताई बावीसं पन्नत्ताई, तंजहा-उजुसुयं, परिणयापरिणयं, बहुभंगिअं, विजय ॥१९॥ Jain Education For Private Personel Use Only ( Mainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294