Book Title: Nandisutram
Author(s): Devvachak, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 259
________________ अवचूरिसमलंकृतम् नन्दिसूत्रम् | कलंकाः, असिद्धाः संसारिणः, एते सर्वेऽप्यनन्ताः प्रज्ञप्ताः, इह भव्याभव्यानामानन्त्येभिहितेऽपि यत्पुनरसिद्धा अनन्ता इत्यभिहितं तत्सिद्धेभ्यः संसारिणामनन्तगुणताख्यापनार्थ । सम्प्रति द्वादशाङ्गविराधनाफलं त्रैकालिकमुपदर्शयति-इत्येतत् द्वादशांगं गणिपिटकम॥२१३॥ तीते कालेऽनन्ता जीवा आज्ञया-यथोक्ताज्ञापरिपालनाऽभावतो विराध्य चतुरन्तं संसारकान्तारं-विविधशारीरमानसानेकदुःखविटपिशतसहस्रदुस्तरं भवगहनं अनुपरावृत्तवन्त आसन्, इह द्वादशांङ्ग सूत्रार्थोभयभेदेन त्रिविधं, द्वादशांगमेव चाऽऽज्ञा, आज्ञाप्यते जन्तुगणो हितप्रवृत्ती यया साऽऽज्ञेति व्युत्पत्तेः, ततश्चाज्ञा त्रिविधा, तद्यथा-सूत्राज्ञा अर्थाज्ञा उभयाज्ञा च, सम्प्रति अमृषामाज्ञानां विराधनाश्चिन्त्यन्ते-तत्र यदाभिनिवेशवशतोऽन्यथा सूत्रं पठति तदा सूत्राज्ञाविराधना, सा च यथा जमालिप्रभृतीनां, यदा त्वभिनिवेशवशतोऽन्यथा द्वादशाङ्गार्थ प्ररूपयति तदार्थाज्ञाविराधना, सा च गोष्ठामाहिलादीनामवसेया, यदा पुनरभिनिवेशवशतः श्रद्धाविहीनतया हास्यादितो वा द्वादशाङ्गस्य सूत्रमर्थं च विकुट्टयति तदा उभयाज्ञाविराधना, सा च दीर्घसंसारिणामभव्यानां चानेकेषां विज्ञेया, अथवा पञ्चविधाचारपरिपालनशीलस्य परोपकारकरणैकतत्परस्य गुरोहितोपदेशवचनं आज्ञा, तामन्यथा समाचरन् परमार्थतो द्वादशांगं विराधयति । तदेवं अतीते काले विराधनाफलमुपदय सम्प्रति वर्तमानकाले दर्शयति-'इच्चेइय' इत्यादि सुगम, नवरं 'परित्ता' इति परिमिता न तु अनंता असंख्येया वा, वर्तमानकालचिन्तायां विराधकमनुष्याणां संख्येयत्वात् , अनुपरावर्त्तन्ते-भ्रमन्तीत्यर्थः, भविष्यति काले विराधनामुपदर्शयति- इच्चेइयं' इत्यादि, इदमपि पाठसिद्धं, नवरं अनुपरावर्त्तिष्यंति-पर्यटिष्यंति इत्यर्थः, तदेवं विराधनाफलं त्रैका लिकमुपदर्य संप्रति आराधनाफलं त्रैकालिकं दर्शयति-' इच्चेइय' मित्यादि, सुगम नवरं व्यतिक्रांतवंतः व्यतिक्रमति संसारकांतारं न. सू..१८ उल्लंघ्य मुक्ति अवाप्ता इत्यर्थः । व्यतिक्रमिष्यंति, एतच्च त्रैकालिकं विराधना आराधनाफलं च द्वादशांगस्य सदावस्थायित्वे सति युज्यते ॥२१३॥ Jain Education For Private & Personel Use Only D ainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294