Book Title: Nandisutram
Author(s): Devvachak, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसत्रम्
॥२१६॥
Jain Education
'अक्खरसनी 'त्यादि गतार्था, नवरं सप्तापि एते पक्षाः सप्रतिपक्षाः, ते च एवं - अक्षरश्रुतं अनक्षरश्रुतमित्यादि । इदं च श्रुतज्ञानं सर्वातिशयरत्नकल्पं प्रायो गुर्वधीनं च ततो विनेयजनानुग्रहार्थं यो यथा च अस्य लाभस्तं तथा दर्शयति - १ 'आगमे ' त्यादि, आ-अभिविधिना सकलश्रुतविषयव्याप्तिरूपेण मर्यादया वा यथावस्थिलप्ररूपणारूपया गयंते- परिच्छिद्यते अर्था येन स आगमः, स च एवं व्युत्पच्या अवधिकेवलादिलक्षणोऽपि भवति ततस्तद्व्यवच्छेदार्थं विशेषणांतरं आह- ' शास्त्रे 'ति शिष्यते अनेन इति शास्त्रं आगमरूपं शास्त्रं आगमशास्त्रं, आगमग्रहणेन षष्टितंत्रादिकुशास्त्रव्यवच्छेदः, तेषां यथावस्थितार्थप्रकाशनाभावतो न आगमत्वात् आगमशास्त्रस्य ग्रहणं आगमग्रहणं यत् बुद्धिगुणैः वक्ष्यमाणैः कारणभूतैः अष्टभिः दृष्टं तत् एव ग्रहणं श्रुतज्ञानस्य लाभं ब्रुवते पूर्वेषु विशारदा-विपश्चिताः धीराः व्रतपालने स्थिराः, किं उक्तं भवति यदेव जिनप्रणीत प्रवचनार्थपरिज्ञानं तदेव परमार्थतः श्रुतज्ञानं, न शेषं इति । बुद्धिगुणैः अष्टभिः इत्युक्तं । ततस्तानेव बुद्धिगुणानाह - 'सुस्सूस' इत्यादि, पूर्वं तावत् शुश्रूषते - विनययुक्तो गुरुवदनअरविंदात् विनिर्गच्छत् वचनं श्रोतुमिच्छति, यत्र शंकितं भवति तत्र भूयोऽपि विनयनम्रतया वचसा गुरुमनः प्रल्हादयन् पृच्छति । पृष्ठे च यद्गुरुः कथयति तत्सम्यक् व्याक्षेपपरिहारेण सावधानः शृणोति श्रुत्वा च अर्थरूपतया गृह्णाति, गृहीत्वा च ईहते - पूर्वापराविरोधेन पर्यालोचयति । चशब्दः समुच्चयार्थः, अपिशब्दः पर्यालोचयन् किंचित् खबुद्ध्यापि उत्प्रेक्षिते इति सूचनार्थः । ततः स पर्यालोचनानंतरं अपोहते । एवं तत् यदादिष्टं आचार्येण न अन्यथा इति अवधारयति, ततस्तं अर्थ निश्चितं स्वचेतसि विस्मृत्य भावार्थ सम्यग् धारयति, करोति च सम्यग् - यथोक्तं अनुष्ठानं, यथोक्तानुष्ठानं अपि श्रुतज्ञानप्राप्तिहेतुः । तत् आवरणक्षयोपशमनिमित्तत्वात् । तदेवं गुणा व्याख्याताः || ३ || संप्रति यत शुश्रूषते इति उक्तं तत्र श्रवणविधिं आह- 'मूक' इति प्रथमतो मूकं शृणुयात्, किं उक्तं भवति ?
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥२१६॥
Mainelibrary.org

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294