SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ नन्दिसत्रम् ॥२१६॥ Jain Education 'अक्खरसनी 'त्यादि गतार्था, नवरं सप्तापि एते पक्षाः सप्रतिपक्षाः, ते च एवं - अक्षरश्रुतं अनक्षरश्रुतमित्यादि । इदं च श्रुतज्ञानं सर्वातिशयरत्नकल्पं प्रायो गुर्वधीनं च ततो विनेयजनानुग्रहार्थं यो यथा च अस्य लाभस्तं तथा दर्शयति - १ 'आगमे ' त्यादि, आ-अभिविधिना सकलश्रुतविषयव्याप्तिरूपेण मर्यादया वा यथावस्थिलप्ररूपणारूपया गयंते- परिच्छिद्यते अर्था येन स आगमः, स च एवं व्युत्पच्या अवधिकेवलादिलक्षणोऽपि भवति ततस्तद्व्यवच्छेदार्थं विशेषणांतरं आह- ' शास्त्रे 'ति शिष्यते अनेन इति शास्त्रं आगमरूपं शास्त्रं आगमशास्त्रं, आगमग्रहणेन षष्टितंत्रादिकुशास्त्रव्यवच्छेदः, तेषां यथावस्थितार्थप्रकाशनाभावतो न आगमत्वात् आगमशास्त्रस्य ग्रहणं आगमग्रहणं यत् बुद्धिगुणैः वक्ष्यमाणैः कारणभूतैः अष्टभिः दृष्टं तत् एव ग्रहणं श्रुतज्ञानस्य लाभं ब्रुवते पूर्वेषु विशारदा-विपश्चिताः धीराः व्रतपालने स्थिराः, किं उक्तं भवति यदेव जिनप्रणीत प्रवचनार्थपरिज्ञानं तदेव परमार्थतः श्रुतज्ञानं, न शेषं इति । बुद्धिगुणैः अष्टभिः इत्युक्तं । ततस्तानेव बुद्धिगुणानाह - 'सुस्सूस' इत्यादि, पूर्वं तावत् शुश्रूषते - विनययुक्तो गुरुवदनअरविंदात् विनिर्गच्छत् वचनं श्रोतुमिच्छति, यत्र शंकितं भवति तत्र भूयोऽपि विनयनम्रतया वचसा गुरुमनः प्रल्हादयन् पृच्छति । पृष्ठे च यद्गुरुः कथयति तत्सम्यक् व्याक्षेपपरिहारेण सावधानः शृणोति श्रुत्वा च अर्थरूपतया गृह्णाति, गृहीत्वा च ईहते - पूर्वापराविरोधेन पर्यालोचयति । चशब्दः समुच्चयार्थः, अपिशब्दः पर्यालोचयन् किंचित् खबुद्ध्यापि उत्प्रेक्षिते इति सूचनार्थः । ततः स पर्यालोचनानंतरं अपोहते । एवं तत् यदादिष्टं आचार्येण न अन्यथा इति अवधारयति, ततस्तं अर्थ निश्चितं स्वचेतसि विस्मृत्य भावार्थ सम्यग् धारयति, करोति च सम्यग् - यथोक्तं अनुष्ठानं, यथोक्तानुष्ठानं अपि श्रुतज्ञानप्राप्तिहेतुः । तत् आवरणक्षयोपशमनिमित्तत्वात् । तदेवं गुणा व्याख्याताः || ३ || संप्रति यत शुश्रूषते इति उक्तं तत्र श्रवणविधिं आह- 'मूक' इति प्रथमतो मूकं शृणुयात्, किं उक्तं भवति ? For Private & Personal Use Only अवचूरिसमलंकृतम् ॥२१६॥ Mainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy