SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥२१७॥ ESCLUSOSHARES प्रथमश्रवणे संयमगात्रस्तूष्णीं आसीत् । ततो द्वितीये श्रवणे हुंकारं दद्यात्, वंदनं कुर्यादित्यर्थः, तृतीये वा ढक्कारं कुर्यात, बाढं । | अवचूरिएवमेतत् न अन्यथा इति, ततः चतुर्थश्रवणे तु गृहीतपूर्वापरसूत्राभिप्रायो मनाक् प्रति पृच्छां कुर्यात्, कथं एतदिति ?, पंचमे मीमांसा | समलंकृत प्रमाणजिज्ञासां कुर्यादिति भावः, षष्ठे श्रवणे तत् उत्तरोत्तरगुणप्रसंगः पारगमनं च अस्य भवति । ततः सप्तमे श्रवणे परिनिष्ठा-गुरु-15 वदनुभाषते । एवं तावत् श्रवणविधिः उक्तः ॥४॥ संप्रति व्याख्यानविधि अभिधित्सुराह-'सुत्तत्थो' इत्यादि, प्रथमानुयोगः सूत्रार्थः-16 सूत्रार्थ-प्रतिपादनपरः, खलु शब्द एवकारार्थः, स च अवधारणे, ततोऽयमर्थः-गुरुणा प्रथमोऽनुयोगः सूत्रार्थाभिधानलक्षण एव | कर्तव्यः । माभूत् प्राथमिकविनेयानां मतिमोहः, द्वितीयोऽनुयोगः सूत्रस्पर्शिकनियुक्तिमिश्रितो भणितस्तीर्थकरगणधरैः, सूत्रस्पर्शिकनियुक्तिमिश्रितं द्वितीयं अनुयोगं गुरुः विदध्यात् इति आख्यातं तीर्थकरगणधरैः इति भावः, तृतीयश्च अनुयोगो निरवशेषः-प्रसक्तानुप्रसक्तप्रतिपादनलक्षणः इत्येषः-उक्तलक्षणो विधिः भवति । अनुयोगे व्याख्यायां आह-परिनिष्ठा सत्तमे इति उक्तं, त्रयश्च अनुयोगप्रकाराः तदेतत् कथं ? उच्यते, त्रयाणां अनुयोगानां अन्यतमेन केनचित् प्रकारेण भूयो भूयो भाव्यमानेन सप्त वाराः श्रवणं कार्यते ततो न कश्चित् दोषः । अथ किंचित् मंदमतिविनेयमधिकृत्य तदुक्तं द्रष्टव्यं, न पुनः एष एव सर्वत्र श्रवणविधिनियमः, उद्घटितज्ञविनेयानां सकृत् श्रवणत एव अशेषग्रहणदर्शनात् इति कृतं प्रसंगेन, तदेतत् श्रुतज्ञानं, तदेतत् परोक्षं ॥ इति ।। श्रीनन्यध्ययनअवचूरी परिसमाप्तिमगमत् ॥ ॥२१७॥ RESSOUS SERRASSA Jain Education a l For Private Personal Use Only
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy