________________
अवचूरिसमलंकृतम्
नन्दिसूत्रम् | कलंकाः, असिद्धाः संसारिणः, एते सर्वेऽप्यनन्ताः प्रज्ञप्ताः, इह भव्याभव्यानामानन्त्येभिहितेऽपि यत्पुनरसिद्धा अनन्ता इत्यभिहितं
तत्सिद्धेभ्यः संसारिणामनन्तगुणताख्यापनार्थ । सम्प्रति द्वादशाङ्गविराधनाफलं त्रैकालिकमुपदर्शयति-इत्येतत् द्वादशांगं गणिपिटकम॥२१३॥
तीते कालेऽनन्ता जीवा आज्ञया-यथोक्ताज्ञापरिपालनाऽभावतो विराध्य चतुरन्तं संसारकान्तारं-विविधशारीरमानसानेकदुःखविटपिशतसहस्रदुस्तरं भवगहनं अनुपरावृत्तवन्त आसन्, इह द्वादशांङ्ग सूत्रार्थोभयभेदेन त्रिविधं, द्वादशांगमेव चाऽऽज्ञा, आज्ञाप्यते जन्तुगणो हितप्रवृत्ती यया साऽऽज्ञेति व्युत्पत्तेः, ततश्चाज्ञा त्रिविधा, तद्यथा-सूत्राज्ञा अर्थाज्ञा उभयाज्ञा च, सम्प्रति अमृषामाज्ञानां विराधनाश्चिन्त्यन्ते-तत्र यदाभिनिवेशवशतोऽन्यथा सूत्रं पठति तदा सूत्राज्ञाविराधना, सा च यथा जमालिप्रभृतीनां, यदा त्वभिनिवेशवशतोऽन्यथा द्वादशाङ्गार्थ प्ररूपयति तदार्थाज्ञाविराधना, सा च गोष्ठामाहिलादीनामवसेया, यदा पुनरभिनिवेशवशतः श्रद्धाविहीनतया हास्यादितो वा द्वादशाङ्गस्य सूत्रमर्थं च विकुट्टयति तदा उभयाज्ञाविराधना, सा च दीर्घसंसारिणामभव्यानां चानेकेषां विज्ञेया, अथवा पञ्चविधाचारपरिपालनशीलस्य परोपकारकरणैकतत्परस्य गुरोहितोपदेशवचनं आज्ञा, तामन्यथा समाचरन् परमार्थतो द्वादशांगं विराधयति ।
तदेवं अतीते काले विराधनाफलमुपदय सम्प्रति वर्तमानकाले दर्शयति-'इच्चेइय' इत्यादि सुगम, नवरं 'परित्ता' इति परिमिता न तु अनंता असंख्येया वा, वर्तमानकालचिन्तायां विराधकमनुष्याणां संख्येयत्वात् , अनुपरावर्त्तन्ते-भ्रमन्तीत्यर्थः, भविष्यति काले विराधनामुपदर्शयति- इच्चेइयं' इत्यादि, इदमपि पाठसिद्धं, नवरं अनुपरावर्त्तिष्यंति-पर्यटिष्यंति इत्यर्थः, तदेवं विराधनाफलं त्रैका
लिकमुपदर्य संप्रति आराधनाफलं त्रैकालिकं दर्शयति-' इच्चेइय' मित्यादि, सुगम नवरं व्यतिक्रांतवंतः व्यतिक्रमति संसारकांतारं न. सू..१८ उल्लंघ्य मुक्ति अवाप्ता इत्यर्थः । व्यतिक्रमिष्यंति, एतच्च त्रैकालिकं विराधना आराधनाफलं च द्वादशांगस्य सदावस्थायित्वे सति युज्यते
॥२१३॥
Jain Education
For Private & Personel Use Only
D
ainelibrary.org