Book Title: Nandisutram
Author(s): Devvachak, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम्
अवचूरिसमलंकृत
॥२१२॥
नामए पंचत्थिकाए न कयाइ नासी न कयाइ नत्थि न कयाइ न भविस्सइ भुवि च भवइ अ भविस्सइ अ धुवे नियए सासए अक्खए अव्वए अवढिए निचे एवामेव दुवालसंगे गणिपिडगे न कयाइ नासी न कयाइ नत्थि न कयाइ न भविस्सइ भुविं च भवइ अ भविस्सइ अ धुवे निअए सासए अक्खए अव्वए अवढिए निचे से समासओ चउविहं पन्नत्तं तं जहा-दवओ। खित्तओ। कालओ। भावओ। तत्थ दवओ णं सुअनाणी उवउत्ते सव्व दव्वाइं जाणइ पासइ । खित्तओणं सुअनाणी उवउत्ते सव्वं खेत्तं जाणइ पासइ । कालओ णं सुअनाणी उवउत्ते सव्वं कालं जाणइ पासइ । भावओ णं सुअनाणी उवउत्ते सव्वे भावे जाणइ पासइ ।
इत्येतस्मिन् द्वादशांगे गणिपिटके एतत् पूर्ववत् एव व्याख्येयं, अनंता भावा-जीवादयः पदार्थाः प्रज्ञप्ता इति योगः । तथा अनंता अभावा:-सर्वभावानां पररूपेणाऽसत्वात् त एव अनंताअभावा द्रष्टव्याः, तथा हि-खपरसत्ताभावाभावात्मकं वस्तुतत्त्वं, तथा जीवो जीवात्मना भावरूपो अजीवात्मना चाभावरूपः, अन्यथाज्जीवत्वप्रसंगात् , अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थगौरवमयादिति, तथाऽनन्ता 'हेतवो' हिनोति गमयति जिज्ञासितधर्मविशिष्टमर्थमिति हेतुः, ते चानन्ताः, तथा हि वस्तुनोऽनन्ता धर्मास्ते च तत्प्रतिबद्धधर्मविशिष्टवस्तुगमकास्ततोऽनन्ता हेतवो भवन्ति, यथोक्तहेतुप्रतिपक्षभूता अहेतवः, तेऽपि अनन्ताः, तथा अनन्तानि कारणानि घटपटादीनां निर्वर्तकानि मृत्पिण्डतन्वादीनि, अनन्तान्यकारणानि सर्वेषामपि कारणानां कार्यान्तराण्यधिकृत्याकारणत्वात्, तथा जीवाः-प्राणिनः, अजीवाः-परमाणुव्यणुकादयः, भव्या-अनादिपारिणामिकसिद्धिगमनयोग्यतायुक्ताः, तद्विपरीता अभव्याः, सिद्धा अपगतकर्ममल
Jain Education
a
l
For Private Personel Use Only
jainelibrary.org

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294