Book Title: Nandisutram
Author(s): Devvachak, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 246
________________ नन्दिसूत्रम् अवचूरिसमलंकृत ॥२०॥ ARRIOR | सर्वनयानां सर्वभंगविकल्पानां प्रदर्शकानि, आचार्य आह-सूत्राणि द्वाविंशतिः प्रज्ञप्तानि, तद्यथा-'ऋजुसूत्र' इत्यादि, एतानि अपि संप्रति सूत्रतोऽर्थतश्च व्यवच्छिन्नानि यथागतसंप्रदायतो वा वाच्यानि, एतानि च सूत्राणि नयविभागतो विभिद्यमानानि अष्टाशीति संख्यानि भवंति । कथमिति चेत् ?, अत आह-'इच्चेइयाई बावीसं सुत्' इत्यादि । इह यो नाम नयः सूत्रं छेदेन छिन्नं एव अभिप्रेतेन द्वितीयेन सूत्रेण सह संबंधयति । यथा 'धम्मो मंगलमुक्किट्ठ' इति श्लोकः, तथा हि-अयं श्लोकः छिन्नछेदनयमतेन व्याख्यायमानो न द्वितीयादीन् श्लोकान् अपेक्षते नापि द्वितीयादयः श्लोका अमुं, अयं अत्राभिप्रायः-तथा कथंचनापि अमुं श्लोकं पूर्वसूरयः च्छिन्नछेदनयमतेन व्याख्यांति स्म यथा न मनाग् अपि द्वितीयादिश्लोकानां अपेक्षा भवति । द्वितीयादीनपि श्लोकान् तथा व्याख्यांति स्म | यथा न तेषां प्रथमश्लोकस्यापेक्षा, तथा सूत्राणि अपि यन्नयाभिप्रायेण परस्परं निरपेक्षाणि व्याख्यांति स्म स छिन्नछेदनयः, छिन्नोद्विधा कृतः पृथक् कृतः छेदः-पर्यतो येन स छिन्नच्छेदः प्रत्येकं कल्पितपर्यंत इत्यर्थः। स चासौ नयश्च छिन्नच्छेदनयः, इति एतानि द्वाविंशतिः सूत्राणि स्वसूत्रसमयपरिपाट्यां-खसमयवक्तव्यतां अधिकृत्य सूत्रपरिपाट्यां विवक्षितायां छिन्नछेदनयिकानि, अत्र 'अतो अनेकस्वरादि' ति मत्वर्थीय इक् प्रत्ययः, ततोऽयमर्थः-छिन्नछेदनयवंति द्रष्टव्यानि, तथा इत्येतानि द्वाविंशतिः सूत्राणि आजीविक81 सूत्रपरिपाट्यां-गोशालप्रवर्त्तिताजीविकपाखंडिमतेन सूत्रपरिपाट्यां विवक्षितायां अच्छिन्नच्छेदनयिकानि, इयमत्र भावना-अच्छिन्न च्छेदनयो नाम यः सूत्रं सूत्रांतरेण सह अच्छिन्नं अर्थतः संबंध अभिप्रेति, यथा 'धम्मो मंगलमुक्किटु' इति श्लोकं, तथा हि-अयं श्लोकः अच्छिन्नछेदनयमतेन व्याख्यायमानो द्वितीयादीन् श्लोकान् अपेक्षते द्वितीयादयोऽपि श्लोका एनं श्लोकं, एवमेतानि अपि द्वाविंशतिः सूत्राणि अक्षररचना अधिकृत्य परस्परं विभक्तानि अपि स्थितानि अच्छिन्नच्छेदनयमतेनर्थसंबंध अपेक्ष्य सापेक्षाणि वर्चते । ॥२०॥ Jain Education For Private Personal use only Whainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294