________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
॥१९६॥
छचउकनइआई सत्ततेरासियाई । से तं परिकम्मे ॥१॥
तच्च परिकर्मसिद्धश्रेणिकापरिकर्मादि मूलभेदापेक्षया सप्तविधं, मातृकापदाधुत्तभेदापेक्षया अशीतिविध, तच्च समूलोत्तरभेदं सकलमपि सूत्रतोऽर्थतश्च व्यवच्छिन्नं, यथागतसंप्रदायतो वा वाच्यं, एतेषां च सिद्धश्रेणिकापरिकादीनां सप्तानां अपि परिकाणां। आधानि षट्परिकर्माणि खसमयवक्तव्यतानुगतानि खसिद्धांतप्रकाशकानि इत्यर्थः । ये तु गोशालप्रवर्तिता आजीविका पाखंडिनः तत्मते च्युताच्युतश्रेणिका परिकमसहितानि सप्तापि परिकर्माणि प्रज्ञाप्यते । संप्रति एतेषु एव परिकर्मसु नयचिंता, तत्र नयाः सप्त नैगमादयः, नैगमोऽपि द्विधा-सामान्यग्राही विशेषग्राही च, तत्र यः सामान्यग्राही स संग्रहं प्रविष्टो यस्तु विशेषग्राही स व्यवहारं, शब्दादयश्च त्रयोऽपि नया एक एव नयः परिकल्प्यते। तत एवं चत्वार एव नयाः, एतैश्चतुर्भिः नयः आद्यानि षट्परिकर्माणि स्वसमयवक्तव्यतया परिचित्यते । तथा चाह सूत्रकृत्-छ 'चउक्कनइयाई ति आधानि षट् परिकर्माणि चतुर्नयकानि४ चतुर्णयोपेतानि, तथा त एव गोशालकप्रवर्तिता आजीविकाः पाखंडिनः त्रैराशिका उच्यते । कस्मादिति चेदुच्यते ?, इह ते सर्व वस्तु
व्यात्मकं इच्छंति, तत्यथा-जीवो अजीवो जीवाजीवश्च, लोकाः अलोको लोकालोकश्च, सदसत् सदसत्, नयचिंतायां अपि त्रिविधं नयं इच्छंति, तद्यथा-द्रव्यास्तिकं पर्यायास्तिकं उभयास्तिकं च, तत् त्रिभिः राशिभिः चरंति इति त्रैराशिकाः तत्मतेन सप्तापि परिकर्माणि उच्यते, तथा चाह-सूत्रकृत्-'सत्ततेरासीया' इति, सप्त परिकर्माणि त्रैराशिकानि त्रैराशिकमतानुयायीनि, एतत् उक्तं भवति पूर्व सूरयो नयचिंतायां त्रैराशिकमतं अवलंबमानाः सप्तापि परिकर्माणि त्रिविधयापि नयचिंतया चिंतयंति स्म इति, तदेतत् परिकर्म।.
से किं तं सुत्ताई ? सुत्ताई बावीसं पन्नत्ताई, तंजहा-उजुसुयं, परिणयापरिणयं, बहुभंगिअं, विजय
॥१९॥
Jain Education
For Private Personel Use Only
(
Mainelibrary.org