SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ नन्दिवत्रम् ॥१७५॥ Jain Education प्रथमथुतस्कंधे । “पिंडेसण (१) सिज्झि (२) रिया ( ३ ) भासजाया ( ४ ) य वत्थ ( ५ ) पाएसा ( ६ ) । उग्गहपडिमा ( १ ) सत्तसत्तिका (१४ ) य भावण (१५) विमुत्ति ( १६ ) ॥ १ ॥ " अत्र 'सेजिरिय'त्ति शय्याध्ययनं ईर्याध्ययनं च । 'वत्थपाएस' त्तिवस्त्र - एषणाध्ययनं पात्र - एषणाध्ययनं च, अमूनि षोडश अध्ययनानि द्वितीयश्रुतस्कंधे । एवमेतानि निशीथवञ्जनि पंचविंशतिः अध्ययनानि भवति, तथा पंचाशीतिः उद्देशनकालाः, कथं चेद् ? उच्यते, इह अंगस्य श्रुतस्कंधस्य अध्ययनस्य उद्देशकस्य च एक एव उद्देशनकालः । एवं शस्त्रपरिज्ञायां सप्त उद्देशन कालाः ७ लोकविजये षट् १३ शीतोष्णाध्ययने चत्वारः १७ सम्यक्त्वा - ध्ययने चत्वारः २१ लोकसाराध्ययने षट् २७ धुताध्ययने पंच ३२ विमोहाध्ययनेऽष्टौ ४० महापरिज्ञायां सप्त ४७ उपधानश्रुते चत्वारः ५१ पिंडैषणायां एकादश ६२ शज्झेषणाध्ययने त्रयः ६५ ईर्याध्ययने त्रयः ६८ भाषाध्ययने द्वौ ७० वस्त्र - एषणाध्ययने द्वौ ७२ पात्रैषणाध्ययने द्वौ ७४ अवग्रहप्रतिमाध्ययने द्वौ ७६ सप्तसप्तिकाध्ययनेषु षट् ८३ भावनायां एकः ८४ विमुक्तौ एक ८५ एवं एते सर्वेऽपि पंडिताः पंचाशीतिः भवंति । एवं समुद्देशनकाला अपि पंचाशीतिर्भावनीयाः, तथा पदाग्रेण परिमाणेन अष्टादशपदसहस्राणि, इह यत्र अर्थोपलब्धिस्तत् पदम् । तथा संख्येयानि अक्षराणि, पदानां संख्येयत्वात् । तथा इह गमाः - अर्थगमा गृह्यंते । अर्थगमा नाम अर्थपरिच्छेदास्ते च अनंताः, एकस्मादेव सूत्रात् अतिशायिमतिमेधादिगुणानां तत्तत् धर्म्मविशिष्टानन्तधर्मात्मकवस्तुप्रतिपत्तिभावात् । तथा अनंताः पर्यायाः ते च खपरमेदभिन्ना अक्षरार्थगोचरा वेदितव्याः, तथा परीताः - परिमिताः त्रसाद्वींद्रियादयः, अनंता ः स्थावराः - वनस्पतिकायादयः, शाश्वता-धर्मास्तिकायादयः कृताः - प्रयोगविस्रसा जन्याः घटसंध्याभ्ररागादयः, एते सर्वेपि त्रसादयो निबद्धा: -सूत्रे स्वरूपतः उक्ता, निकाचिताः - निर्युक्तिसंग्रहणिहेतुउदाहरणादिभिः अनेकधा व्यवस्थापिता For Private & Personal Use Only अवचूरिसमलंकृतम् ॥१७५॥ ainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy